महादान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महादानम्, क्ली, (महच्च तद्दानञ्चेति ।) श्रेष्ठ- दानम् । तत्तु तुलापुरुषादिषोडशप्रकारम् । यथा, मत्स्यपुराणे । “अथातः संप्रवक्ष्यामि महादानस्य लक्षणम् ॥” इत्यभिधाय । “आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् । हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् ॥ कल्पपादपदानञ्च गोसहस्रन्तु पञ्चमम् । हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च ॥ पञ्चलाङ्गलकं तद्वद्धरादानन्तथैव च । हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा ॥ द्बादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् । सप्तसागरदानञ्च रत्नधेनुस्तथैव च । महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः ॥” * ॥ अत्र सामान्यलक्षणम् । सूक्तजपाङ्गकदानं महादानम् । विनायकादिपञ्चाशद्देषताहोमा- ङ्गकं वा । तथा मत्स्यपुराणम् । “विनायकादिग्रहलोकपाल- वस्वष्टकादित्यमरुद्गणानाम् । ब्रह्माच्युतेशानबृहस्पतीनां स्वमन्त्रतो होमचतुष्टयं स्यात् ॥ जप्यानि सूक्तानि तथैव चैषा- मनुक्रमेणापि यथास्वरूपम् ॥” इत्यादिना सूक्तजपहोमरूपाङ्गयोर्व्विधानं प्रत्येकं षोडशतुलापुरुषप्रधानान्युद्दिश्योक्तं नतु महादानत्वेनोद्दिश्येति । अतो नेतरेतरा- श्रयः । न तु कुण्डमण्डपेतिकर्त्तव्यतायोगित्वं जिकनीयलक्षणम् । अचलदानेऽपि गतत्वात् । एवञ्च । “कनकाश्वतिला गावो दासी रथमहीगृहाः । कन्या च कपिला धेनुर्म्महादानानि वै दश ॥” इति कूर्म्मपुराणोक्तदानपदं गौणम् ॥ अन्यथा बहुशक्तिकल्पनापत्तेः कनकदानादि- साधारणानुगतैकरूपाभावाच्च । अतो न वैप- रीत्यमिति । “सर्व्वेषामेव दानानामेकजन्मानुगं फलम् ॥” इति मलमासतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महादान¦ न॰ कर्म॰। विनायकादिसूक्तजपाङ्गके तुला-पुरुषादिषोडशदाने
“अथातः संप्रवक्ष्यामि महादानस्यलक्षणम्” इत्युपक्रम्य
“आद्यन्तु सर्वदानानां तुला-पुरुषसंज्ञकम्” इत्यादिना षोडशदानान्यभिधाय
“विना-यकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम्। ब्रह्मा-च्युतेशार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात्। जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूप-मित्युक्तं मात्स्ये। विस्तरस्तु मत्कृततुलादानादि-पद्धतौ ज्ञेयः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महादान/ महा--दान n. " great gift " , N. of certain valuable gifts (16 are enumerated) Pan5car. Cat.

महादान/ महा--दान mfn. accompanied by -valvaluable gifts (said of a sacrifice) Hariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHĀDĀNA : There are sixteen Mahādānas or “Great gifts”. They are: (1) Tulāpuruṣadāna, (2) Hiraṇya- garbha dāna, (3) Brahmāṇḍa dāna, (4) Kalpakavṛkṣa- dāna, (5) Gosahasradāna, (6) Hiraṇyakāmadhenu- dāna, (7) Hiraṇyāśva dāna, (8) Hiraṇyāśvaratha dāna, (9) Hemahastiratha dāna, (10) Pañcalāṅgalaka- dāna (11) Dhārādāna, (12) Viśvacakradāna (13) Kalpalatā dāna, (14) Saptasāgaraka dāna, (15) Ratna- dhenu dāna, (16) Mahāpūtaghaṭa dāna. (Agni Purāṇa, Chapter 210).


_______________________________
*11th word in right half of page 461 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महादान&oldid=434906" इत्यस्माद् प्रतिप्राप्तम्