महानादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानादः, पुं, (महान् नादोऽस्य ।) हस्ती । वर्षुकमेघः । (महाश्चांसौ नादश्चेति ।) महा- शब्दः । इति मेदिनी । दे, ५१ ॥ (यथा, महाभारते । ५ । ९९ । २ । “इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः । प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥”) सिंहः । कर्णः । इति हेमचन्द्रः ॥ उष्ट्रः । शङ्खः । इति राजनिर्घण्टः ॥ काहलवाद्यम् । इति हारावली ॥ (महादेवः । यथा, महा- भारते । १३ । १७ । ४८ । “निशाचरः प्रेतचारी भूतचारी महेश्वरः । कालयोगी महानादः सर्व्वकामश्चतुष्पथः ॥” महाशब्दयुक्ते, त्रि । यथा, रामायणे । ४ । ४० । ३८ । “तत्कालमेव प्रतिमं महोरगनिषेवितम् । अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=महानादः&oldid=156900" इत्यस्माद् प्रतिप्राप्तम्