महाविष्णुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाविष्णुः, पुं, (महांश्चासौविष्णुः सर्व्वव्यापकश्चेति ।) महाविराट् । यथा । ‘यस्या जले कोटिकोटि- ब्रह्माण्डानि महाविष्णुरोमकूपगतानि तस्या विरजायाः परिखाभूताया उपरि महावैकुण्ठ- लोकः । तस्योर्द्धभागे गोलोकः । तस्य नाथः कृष्णो देवलीलः स परिवारेण वर्त्तते । इति भागवतामृतकणिका । स च श्रीकृष्णस्य कला- विशेषः । यथा, -- “विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥” इति भागवतामृतपूर्ब्बखण्डः ॥

"https://sa.wiktionary.org/w/index.php?title=महाविष्णुः&oldid=157156" इत्यस्माद् प्रतिप्राप्तम्