महावीरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महावीरः, पुं, (वीन् पक्षिण ईरयतीति । ईर + कः । ततो महांश्चासौ वीरश्चेति ।) गरुडः । वीरयतीति । वीर + कः । महान् वीर इति कर्म्मधारयः । सूरः । सिंहः । मखानलः । (स च मनुपुत्त्रविशेषः । यथा, श्रीभागवते । ५ । १२५ । “अग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो- घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति ॥”) वज्रः । श्वेततुरङ्गः । सञ्चानपक्षी । इति मेदिनी । रे, २८९ ॥ अन्तिमजिनः । (अयमेव सिद्धार्थस्य त्रिशलागर्भजातः पुत्त्रः । तद्बिवरणं यथा, अरिष्टनेमिपुराणान्तर्गतजैनहरिवंशे । “सर्व्वार्थश्रीमतीजन्मा तस्मिन् सर्व्वार्थदर्शनः । सिद्धार्थोऽभवदर्काभो भूपः सिद्धार्थपौरुषः ॥ यत्र पाति धरित्रीयमभूदेकत्रदोषिणी । धर्म्मार्थिन्योऽपि यत्त्यक्तपरलोकभयाः प्रजाः ॥ कस्तस्य तान् गुणानुद्यान्नरस्तुलयितुं क्षमः । वर्द्धमानगुरुत्वं यैः प्रापितः स नराधिपः ॥ उच्चैः कुलाद्रिसम्भूता सहजस्नेहवाहिनी । महिषी श्रीसमुद्रस्य तस्यासीत् प्रियकारिणी ॥ चेतश्चेटकराजस्य यास्ताः सप्तशरीरिजाः । अतिस्नेहाकुलञ्चक्रुस्तास्वाद्या प्रियकारिणी ॥ कस्तां योजयितुं शक्तस्त्रिशलां गुणवर्णनैः । या स्वपुण्यैर्महावीरप्रसवाय नियोजिता ॥ सर्व्वतोऽथ नमन्तीषु सर्व्वासु सुरकोटिषु । प्रभावान्निपन्तीषु नभसो वमुवृष्टिषु ॥ वीरेऽवतरति त्रातुं धरित्रीमसुधारिणः । तीर्थेनाच्युतकल्पोच्चैः पुष्पोत्तरविमानतः ॥ सा तं षोडशसुस्वप्नदर्शनोत्सवपूर्व्वकम् । दध्रे गर्भेश्वरं गर्भे श्रीवीरं प्रियकारिणी ॥ पञ्चसप्ततिवर्षाष्टमासमासार्द्धशेषकः । चतुर्थस्तु तदा कालो दुःखमः सुखमोत्तरः ॥ आषाढशुक्लषष्ट्यान्तु गर्भावतरणेऽर्हतः । उत्तराफाल्गुनीनीडमुडुराजद्विजश्रितः ॥ दिक्कुमारीकृताभिष्यां द्योतिमूर्त्तिर्घनस्तनीम् । प्रच्छन्नो भासयद्गर्भस्तां रविः प्रावृषं यथा ॥ नवमासेव्वतीतेषु स जिनोऽष्टदिनेषु च । उत्तराफाल्गुनीष्विन्दौ वर्त्तमानेऽजनि प्रभुः ॥ ततोऽन्त्यजिनमाहात्म्याल्लुठत्पीठकिरीटकाः । प्रणेमुरवधिज्ञाततद्वृत्तान्ताः सुरेश्वराः ॥ शङ्खभेरीहरिध्वानघण्टानिर्घोषघोषणम् । शिष्याव्रतं चतुर्भेदं तत्र स्त्रीपुरुषा दधुः ॥ तिर्य्यञ्चोऽपि यथाशक्ति नियमेष्ववतस्थिरे । देवाः सद्दर्शनज्ञानजिनपूजासु रेमिरे ॥ श्रेणिकेन तु यत् पूर्ब्बं बह्वारम्भपरग्रहात् । परस्थितिक्रमारब्धं नारकायुस्तमस्तमे ॥ तत्तु क्षायिकसम्पक्त्वात् स्वस्थितिं प्रथमक्षितौ । प्रापद् वर्षसहस्राणामशीतिं चतुरुत्तराम् ॥ त्रयस्त्रिंशत् समुद्राः क्व क्व चेयमपरास्थितिः । अहो क्षायिकसम्पक्त्वप्रभावोऽयमनुत्तरः ॥ अक्रूरो वारिषेणो यो यो मयः स तथापरे । कुमारा मातरश्चैषां पराश्चान्तःपुरस्त्रियः ॥ सम्पक्त्वं शीलसद्दानं प्रौषधं जिनपूजनम् । प्रतिपद्य विनेमुस्तं जिनेन्द्रं त्रिजगद्गुरुम् ॥ ततः प्रणम्य देवेन्द्रा जिनेन्द्रं स्तोत्रपूर्ब्बकम् । यथायथं ययुर्युक्ता निजवर्गैर्निजास्पदम् ॥ श्रेणिकोऽपि गुणश्रेणीमुच्चकैरभिरूढवान् । अभिष्टुत्य जिनं नत्वा प्रविष्टसुष्टधीपुरम् ॥ निःसरद्भिर्व्विशद्भिश्च सभा जैनी जनोर्म्मिभिः । चुक्षोभ क्षुभितैर्वेला नदीपूरैरिवाम्बुधिः ॥ आकीर्णमेव तैर्न्नित्यं सभामण्डलमर्हतः । हीयते वा कदा स्फीतिं भानुभिर्भानुमण्डलम् ॥ नोदयास्तमितं तत्र ज्ञायते ब्रध्नमण्डलम् । धर्म्मचक्रप्रभाचक्रप्रभामण्डलरोचिषाम् ॥ तत्र तीर्थकरः कुर्व्वन् प्रत्यहं धर्म्मदेशनम् । सेवितः श्रेणिकेनास्य न हि तृप्तिस्त्रिवर्गजा ॥ गौतमञ्च समासाद्य तदा तदुपदेशतः । सर्व्वानुयोगमार्गेषु प्रवीणः स नृपोऽभवत् ॥ ततो जिनगृहैस्तुङ्गैराज्ञा राजगृहं पुरम् । कृतमन्तर्बहिव्याप्तमजस्रं महिमोत्सवैः ॥ कृतः सामन्तसंघातैर्महामन्त्रिपुरोहितैः । प्रजाभिर्जिनगेहाढ्यो मगधो विषयोऽखिलः ॥ पुरेषु ग्रामघोषेषु पर्व्वताग्रे ह्यदृश्यत । नदीतटवनान्तेषु तदा गृहजिनावली ॥ तिष्ठन्नेव महोदये विघटयन्मोहान्धकारोन्नतिं प्राग्देशप्रजया विधाय मगधादेशं प्रबुद्धप्रजम् । तद्धृत्या पृथुदेशमध्यमगमन्मध्यन्दिनश्रीधरं मिथ्याज्ञानहिमान्तकृज्जिनरविर्बोधप्रभा- मण्डलः ॥”) कोकिलः । इति हेमचन्द्रः ॥ धनुर्धरः । इति शब्दरत्नावली ॥ एकवीरवृक्षः । इति राज- निर्घण्टः ॥ लक्ष्मणः । यथा, -- “लक्ष्मणञ्च महावीरं पतितं रणभूतले ॥” अङ्गदादिः । यथा, -- “अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥” इति तन्त्रसारे हनूमत्कल्पः ॥ हनूमान् स्वयमपि महावीरत्वेन प्रसिद्धः ॥

"https://sa.wiktionary.org/w/index.php?title=महावीरः&oldid=157162" इत्यस्माद् प्रतिप्राप्तम्