महाश्वेता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्वेता, स्त्री, (महत्यतिशया श्वेता । महान् श्वेतो वर्णो यस्या वा ।) सरस्वती । इति त्रिकाण्डशेषः ॥ कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः । क्षीरविदारी २ ऋक्षगन्धिका ३ । इत्यमरः । २ । ४ । ११० ॥ क्षीरविदारिका ४ क्षीरवल्ली ५ क्षीरकन्दा ६ । इति जटाधरः ॥ क्षीरिका ७ । इति शब्दरत्नावली ॥ श्वेतापराजिता । इति रत्नमाला ॥ (पर्य्यायोऽस्या यथा, -- “गिरिकर्णी महाश्वेता स्थूलपुष्पा सिता क्वचित् ॥” इति वैद्यकरत्नमालायाम् ॥) सिता । तत्पर्य्यायः । मधुजा २ । इति त्रिकाण्ड- शेषः ॥ श्वेतकिणिहीवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, -- “कटभी किणिही श्वेता महाश्वेता च रोहिणी ॥”) दुर्गा । यथा, देवीपुराणे ४५ अध्याये । “श्वेतं शुक्लं शिवस्थानं यस्माच्चेह समागता । महाभावसमुत्पन्ना महाश्वेता ततः स्मृता ॥” (किम्पुरुषवर्षस्थितहंसनामकगन्धर्व्वराजस्य गौरीगर्भोत्पन्ना कन्या । तत्कथा कादम्बर्य्यां विस्तरशो द्रष्टव्या ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्वेता स्त्री।

शुक्लभूकूश्माण्डः

समानार्थक:क्षीरविदारी,महाश्वेता,ऋक्षगन्धिका

2।4।110।2।2

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता। अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्वेता¦ स्त्री कर्म॰।

१ सरस्वत्याम् त्रिका॰

२ कृष्णभूमि-कुष्माण्डे च अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाश्वेता/ महा--श्वेता f. a species of plant Sus3r.

महाश्वेता/ महा--श्वेता f. Batatas Paniculata L.

महाश्वेता/ महा--श्वेता f. Clitoria Ternatea L.

महाश्वेता/ महा--श्वेता f. a species of Achyranthes L.

महाश्वेता/ महा--श्वेता f. white or candied sugar L.

महाश्वेता/ महा--श्वेता f. N. of दुर्गाDevi1P.

महाश्वेता/ महा--श्वेता f. of सरस्वतीL.

महाश्वेता/ महा--श्वेता f. of a goddess Hcar. ( accord. to some = रवि-स्थ-देवता)

महाश्वेता/ महा--श्वेता f. of a woman Ka1d.

"https://sa.wiktionary.org/w/index.php?title=महाश्वेता&oldid=339995" इत्यस्माद् प्रतिप्राप्तम्