महिमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमा, [न्] पुं, (महतो भावः । महत् + “पृथ्वा- दिभ्य इमनिज् वा ।” ५ । १ । १२२ । इति इमनिच् । ततः “टेः ।” ६ । ४ । १५५ । इति टिलोपः ।) शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति हेम- चन्द्रः । २ । ११६ ॥ स च महत्त्वं येन चतुर्द्दश भुवनान्यस्योदरे वर्त्तन्ते । इत्यमरटीकायां भरतः ॥ (तदुक्तं यथा, -- “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥” माहात्म्यम् । यथा, भागवते । ८ । ५ । १३ । “त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः । नाति तृप्यति मे चित्तं सुचिरं तापतापितम् ।”) उत्कर्षः । यथा, पुराणम् । “अधोऽधः पश्यतः कस्य महिमा नोपजायते । उपर्य्युपरि पश्यन्तः सर्व्व एव दरिद्रति ॥” (मन्त्रिविशेषस्य सुतः । यथा, राजतरङ्गि- ण्याम् । ६ । २२० । “सम्भूय चक्रुर्द्वैराज्यं महिम्नः पक्षमाश्रितः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमा f. = महिमन्, greatness etc. R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a siddhi देवी. Br. IV. १९. 4; ३६. ५१; ४४. १०८.
(II)--one of the eight योगैश्वर्यस्; the third Yoga. वा. १३. 3, १३.
"https://sa.wiktionary.org/w/index.php?title=महिमा&oldid=435060" इत्यस्माद् प्रतिप्राप्तम्