महिषासुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषासुरः, पुं, (महिष एव महिषाख्यो वा असुरः ।) रम्भासुरपुत्त्रः । तस्य उत्पत्तिर्यथा, -- श्रीऔर्व्व उवाच “आराधिता महादेवो रम्भेण सुरवैरिणा । चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥ अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् । प्रीतोऽस्मि ते वरं रम्भ ! वरयस्व यथेप्सितम् ॥ एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ॥ अपुत्त्रोऽहं महादेव ! यदि ते मय्यनुग्रहः । मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर ! ॥ अवध्यः सर्व्वभूतानां जेता च त्रिदिवौकसाम् । चिरायुश्च यशस्वी च लक्ष्मीवान् सत्यसङ्गरः ॥ एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः । भवत्वेतद्वाञ्छितन्ते भविष्यामि सुतस्तव ॥ इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत । रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलो- चनः ॥ महिषाख्योऽपरः पश्चात् स वै चैत्रासुरः पुनः । नन्दया निहतो बिन्ध्ये महाबलपराक्रमः ॥ अथवा ज्ञानशक्तिः सा महिषोऽज्ञान- मूर्त्तिमान् । अज्ञानं ज्ञानसाध्यन्तु भवतीति न संशयः ॥ मूर्त्तिपक्षे चेतिहासममूर्त्ते चैकवद्धृदि । ख्यायते वेदवाक्यैस्तु इह सा वेदवादिभिः ॥” इति वराहपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषासुर¦ पु॰ रम्भासुरेण महिष्यामुत्पादिते असुरभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषासुर/ महिषा m. the असुरor demon महिष(from whom the country of Mysore is said to take its name) RTL. 431

"https://sa.wiktionary.org/w/index.php?title=महिषासुर&oldid=341230" इत्यस्माद् प्रतिप्राप्तम्