महौषधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महौषधिः, स्त्री, (महती ओषधिः ।) दूर्व्वा । लज्जालुक्षुपः । इति शब्दचन्द्रिका ॥ महा- स्नानीयद्रव्यविशेषः । यथा, -- “सहदेवी तथा व्याध्री बला चातिबला तथा । शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्च्चला ॥ महौषध्यष्टकं प्रोक्तं महास्नाने नियोजयेत् ॥” इति गोविन्दानन्दधृतमत्स्यपुराणवचनम् ॥ अपिच । “पृश्निपर्णी श्यामलता भृङ्गराजः शतावरी । गुडूची सहदेवी च महौषधिगणः स्मृतः ॥” इति शब्दचन्द्रिका ॥ श्रेष्ठौषधिश्च । (यथा, महाभारते । ३ । २८८ । ६ । “विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह । विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥” सञ्जीवनी । यथा, रघौ । १२ । ६१ । “दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकीविषवल्लीभिः परीतेव महौषधिः ॥” “महौषधीः सञ्जीवनी लतेव ।” इति तट्टीकायां मल्लिनाथः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महौषधि¦ स्त्री कर्म॰।

१ दूर्वायां

२ लज्जालुक्षुपे शब्दच॰।
“सहदेवी तथा व्याघ्री बला चातिबला त्वच। शङ्खपुष्पीतथा सिंही अष्टमी च सुवर्चला। महोषध्यष्टकं प्रोक्तम्” इत्युक्ते

३ देवादीनां स्नानीयद्रव्यभेदे। वा ङीप्।

४ श्वेत-कण्टकार्य्यां

५ ब्राह्म्यां

६ कटुकायाम्

७ अतिविषायाञ्चराजनि॰

८ हिलमोचिकायाम् त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महौषधि¦ f. (-धिः)
1. A sort of grass, commonly Durba
4.
2. A kind of sensitive plant, (Mimosa pudica.) “लज्जावती लता” E. महा large and औषधि a deciduous plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महौषधि/ महौ f. a great or very efficacious medicinal plant MBh. Ka1v. etc. (also धी)

महौषधि/ महौ f. दूर्वाgrass L.

महौषधि/ महौ f. Mimosa Pudica L.

महौषधि/ महौ f. N. of a serpent-maid Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=महौषधि&oldid=342485" इत्यस्माद् प्रतिप्राप्तम्