माक्षिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माक्षिकम्, क्ली, (मक्षिकाभिः कृतम् । मक्षिका + “संज्ञायाम् ।” ४ । ३ । ११७ । इति ठक् ।) मधु । इत्यमरः । २ । ९ । १०७ ॥ नीलवर्ण- मध्यममक्षिकाकृततैलवर्णमधु । अस्य गुणाः । क्षौद्राल्लघुतरत्वम् । रूक्षत्वम् । श्रेष्ठत्वम् । श्वासादिरोगे विशेषतः प्रशस्ततरत्वञ्च । इति राजवल्लमः ॥ धातुविशेषः । धातुमाखी इति हिन्दीभाषा । तद्द्विविधम् । स्वर्णमाक्षिकं रौप्यमाक्षिकञ्च । तत्पर्य्यायः । माक्षीकम् २ पीतकम् ३ धातुमाक्षिकम् ४ तापिच्छम् ५ ताप्यकम् ६ ताप्यम् ७ आपीतम् ८ पीत- माक्षिकम् ९ आवर्त्तम् १० मधुधातुः ११ क्षौद्र- धातुः १२ माक्षिकधातुः १३ । इति राज- निर्घण्टः ॥ कदम्बः १४ चक्रनाम १५ अज- नामकम् १६ । इति हेमचन्द्रः । ४ । १२० ॥ अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । अम्ल- त्वम् । कफभ्रमहृल्लासमूर्च्छार्त्तिश्वासकासविषा- पहत्वञ्च । “माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् । भिन्नवर्णविशेषत्वाद्रसवीर्य्यादिकं पृथक् ॥ तारपादादिके तारमाक्षिकञ्च प्रशस्यते । देहे हेमाभकं शस्तं रोगहृद्बलपुष्टिदम् ॥” इति राजनिर्घण्टः ॥ अपि च । “लेखनो माक्षिको धातुः सुवर्णरजतद्युतिः । जराजित् पाण्डुरोगघ्नः क्षयकुष्ठज्वरापहः ॥ मधुरोऽम्लः कटुःपाके किञ्चिदुष्णोऽमृतोपमः ॥” इति कश्चिद्राजवल्लभः ॥ (उपधातुविशेषः । यथा, सुखबोधे । “माक्षिकं तुत्थिताभ्रे च नीलाञ्जनशिलालकाः । रसकञ्चेति विज्ञेया एते सप्तोपधातवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माक्षिक नपुं।

पुष्पमधुः

समानार्थक:मकरन्द,पुष्परस,मधु,क्षौद्र,माक्षिक,मधु

2।9।107।2।3

मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि। मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माक्षि(क्षी)क¦ न॰ मक्षिकाभिः सम्भृत्य कृतम् अण् पृषो॰वा दीर्घः।

१ मधुनि अमरः। तत्तुल्यगुणे उपधातुभेदे

२ स्वर्णमाक्षिके

३ रौप्यमाक्षिके च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माक्षिक mfn. (fr. मक्षिका)coming from or belonging to a bee Ma1rkP.

माक्षिक n. ( scil. मधु)honey Var. Sus3r.

माक्षिक n. a kind of -hhoney-like mineral substance or pyrites MBh.

"https://sa.wiktionary.org/w/index.php?title=माक्षिक&oldid=343307" इत्यस्माद् प्रतिप्राप्तम्