मातामह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातामहः, पुं, (मातुः पिता । “पितृव्यमातुल मातामहपितामहाः । ४ । २ । ३६ । इति डामहच् निपातितश्च ।) मातुः पिता । इत्य- मरः । २ । ६ । ३३ ॥ दौहित्रस्य मातामह- साधर्म्यं यथा, -- “आसीदङ्गो नृपश्रेष्ठो यज्ञशीलो दृढव्रतः । यजतः सुमहत्कालाद्वेण एकोऽभवत्ततः ॥ मृत्योः कन्या सुनीथा या मातुर्दुःशीलकारणात् । क्रूरा बुद्धिरभूत्तस्य जगतोऽस्यापि पीडने ॥ तपस्विनां कुले जाता ऋषीणाञ्च यशस्विनाम् । सगुणां निर्गुणां वापि यान्ति मातामहीं तनुम् ॥” इत्यग्निपुराणम् ॥ तन्मरणे त्रिरात्राशौचं यथा । मातामहानां मरणे त्रिरात्रं स्यादशौचकम् । इति शुद्धितत्त्वे कूर्म्मपुराणम् ॥ * ॥ दुहितृपर्य्यन्ताभावे तस्य श्राद्धे दौहित्रस्याधिकारो यथा, -- “मातामहानां दौहित्राः कुर्व्वन्त्यहनि चापरे । ते च तेषां प्रकुर्ब्बन्ति द्बितीयेऽहनि सर्व्वदा ॥” इति शुद्धितत्त्वम् । दुहितृपर्य्यन्ताभावे तस्य धने दौहित्रस्याधि- कारो यथा । तदभावे दौहित्रः । “पौत्त्रदौहित्रयोर्लोके विशेषो नास्ति धर्म्मतः । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥” इति मनुवचने पौत्त्रतुल्याभिधानेन यथा पुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे दौहित्रः । अतएव गोबिन्दराजधृतो विष्णुः । अपुत्त्रपौत्रे संसारे दौहित्रा धनमाप्नु युः । पूर्व्वेषां हि स्वधाकारे पौत्त्रदौहित्रकाः समाः ॥” इति दायतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातामह पुं।

मातुः_पिता

समानार्थक:मातामह

2।6।33।2।1

पितामहः पितृपिता तत्पिता प्रपितामहः। मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातामह¦ पु॰ मातुः पिता मातृ + डामह।

१ मातुः पितरि

२ तत्पत्न्यां स्त्री गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातामह¦ m. (-हः) A maternal grandfather. f. (-ही) A maternal grand- mother. E. मातृ a mother, डामहच् aff. in this sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातामहः [mātāmahḥ], A maternal grandfather. -हौ (dual) The maternal grand-father and grand-mother. -ही The maternal grand-mother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातामह/ माता--मह m. ( Pa1n2. 4-2 , 35 Va1rtt. 2 Pat. )a maternal grandfather MBh. Ka1v. etc.

मातामह/ माता--मह m. ( du. )-matmaternal grandparents Pa1rGr2.

मातामह/ माता--मह m. ( pl. )a mother's father , grandfather , and ancestors Ya1jn5.

मातामह/ माता--मह mf( ई)n. related or belonging to a -matmaternal grandfather R. Hariv. (also 662374 हीयmfn. Hariv. Sch. )

"https://sa.wiktionary.org/w/index.php?title=मातामह&oldid=503483" इत्यस्माद् प्रतिप्राप्तम्