मातुलानी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलानी, स्त्री, (मातुल + टाप् । मातुलस्य स्त्री । “इन्द्रवरुणेति । ४ । १ । ४९ । ङीष् आनुक् च ।) मातुलपत्नी । इत्यमर- भरतौ । २ । ६ । ३० । मामी इति भाषा ॥ तन्मरणे पक्षिण्यशौचम् । यथा, -- “श्वशुरयोर्भगिन्याञ्च मातुलान्याञ्च मातुले । पित्रोः स्वसरि तद्वच्च पक्षिणीं क्षपयेन्नि- शाम् ॥” इति शुद्धितत्त्वम् ॥

मातुलानी, स्त्री, (मा निषेधे तुलां नयति प्राप्नो- तीति । नी + क्विप् । ङीष् ।) कलायः । भङ्गा । इति मेदिनी । ने, २०३ ॥ (यथास्या पर्य्यायः । भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “भङ्गा गञ्जा मातुलानी मादीनि विजया जया ॥”) शणः । इति हेमचन्द्रः । ४ । २४५ ॥ प्रियङ्गु- वृक्षः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलानी स्त्री।

मातुलभार्या

समानार्थक:मातुलानी,मातुली

2।6।30।2।3

भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्. प्रजावती भ्रातृजाया मातुलानी तु मातुली॥

पति : मातुर्भ्राता

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मातुलानी स्त्री।

चणभेदः

समानार्थक:मातुलानी,भङ्गा

2।9।20।2।1

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलानी f. ( Pa1n2. 4-1 , 49 ) the wife of a maternal uncle Mn. Ya1jn5. BhP.

मातुलानी f. hemp or Crotolaria Juncea L.

मातुलानी f. a kind of pulse (also निका) L.

"https://sa.wiktionary.org/w/index.php?title=मातुलानी&oldid=344743" इत्यस्माद् प्रतिप्राप्तम्