मातुलुङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलुङ्गः, पुं, (मा न तुलं गच्छतीति । गम + डः । पृषोदरादित्वात् अकारस्योकारः मुम्च ।) बीजपूरः । इत्यमरटीकायां भरतः ॥ (यथा, सुश्रुते उत्तरतन्त्रे ३९ अध्याये । “केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् । शर्करादाडिमाभ्यां वा द्राक्षाखज्जूरयोस्तथा ॥” (तथास्य पर्य्यायः । “बीजपूरो मातुलुङ्गः सुफलः फलपूरकः । लुङ्गुषः पूरकः पूरो बीजपूर्णोऽम्बुकेशरः ॥” इति वैद्यकरत्नमालायाम् । तथास्य गुणाः । स्यान्मातुलुङ्गः कफवातहन्ता हन्ता कृमीणां जठरामयघ्नः । स दोषरक्तादिविकारपित्त- सन्दीपनः शूलविकारहारी ॥ श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् । दीपनं लघु रुच्यञ्च मातुलुङ्गमुदाहृतम् ॥ त्वक्तिक्ता दुर्ज्जराति स्यात् कृमिवातकफा- पहा । स्वादु शीता गुरुः स्रिग्धा त्वङ्मांसं वात- पित्तजित् ॥ मेध्यं शूलानिलच्छर्द्दिकफारोचकनाशनम् । दीपनं लघु संग्राहि गुल्मार्शोघ्नन्तु केशरम् ॥ हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् । शूला जीर्णादिरोगेषु मन्दाग्नौ कफमारुते ॥ अरुचिश्वासकासेषु स्वरसोऽस्योपदिश्यते । रसोऽतिमधुरो हृद्यो वीर्य्यपित्तानिलापहा ॥ कफकृद्दुर्ज्जरः पाके मातुलुङ्गस्य कल्ककः । तिक्तं पुष्पन्तु बीजञ्च गुल्मनुत्स्यात्तथाषरम् ॥” इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥ “त्वक्तिक्ता कटुका स्निग्धा मातुलुङ्गस्य वातजित् । वृंहणं मधुरं मांसं वातपित्तहरं गुरु ॥ लघु तत्केसरं श्वासकासहिक्कामदात्ययान् । आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ॥ गुल्मोदरार्शः शूलानि मन्दाग्नित्वञ्च नाशयेत् ॥” इति च वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलुङ्ग¦ पु॰ मातुलं गच्छति गम--खच् डिच्च पृषो॰।

१ वीज-पूरे भरतः।

२ मधुकुक्कुट्याम्॰ स्त्री रत्नमा॰। स्वार्थे क।

३ वीजपूरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलुङ्ग¦ m. (-ङ्गः) Common citron. f. (-ङ्गा) The sweet lime. E. See the next.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातुलुङ्ग m. and n. =prec. m. and n. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=मातुलुङ्ग&oldid=344778" इत्यस्माद् प्रतिप्राप्तम्