मारिषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिषा, स्त्री, (मारिष + टाप् ।) दक्षमाता । इति मेदिनी । षे, ४४ ॥ (यथा, मत्स्यपुराणे । ४ । ४९ । “सोमकन्याभवत् पत्नी मारिषा नाम विश्रुता । तेभ्यस्तु दक्षमेकं सा पुत्त्रमग्र्यमजीजनत् ॥” अस्या जन्मवृत्तान्तो यथा, विष्णुपुराणे । प्रथमांशे १५ अध्याये । “कण्डुर्नाम मुनिः पूर्ब्बमासीद्वेदविदांवरः । सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥ तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥” इत्यारभ्य -- “यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । तावद्गलत्स्वेदजला सा बभूवातिवेपथुः ॥ प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥ वृक्षाद्वृक्षं ययौ बाला तदग्रारुणपल्लवैः । निर्मार्ज्जमाणा गात्राणि गलत्स्वेदजलानि वै ॥ ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥ तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥” शूरस्य पत्नी । यथा, भागवते । ९ । २४ । २७ । “देवमीढस्य शूरस्य मारिषा नाम पत्न्य- भूत् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिषा f. N. of the mother of दक्षHariv. Pur.

मारिषा f. of the wife of शूरPur. , of a river MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of a Bhoja king; wife of देवमीढ and mother of Vasudeva and others. भा. IX. २४. २७; Br. III. ७१. १४५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀRIṢĀ I : A nymph created as a maiden of the Flora (See under Kaṇḍu).


_______________________________
*3rd word in left half of page 488 (+offset) in original book.

MĀRIṢĀ II : A river of Purāṇic fame. (Śloka 36, Chapter 9, Bhīṣma Parva).


_______________________________
*4th word in left half of page 488 (+offset) in original book.

MĀRIṢĀ : A place of habitation of ancient Bhārata. (Śloka 69, Chapter 9, Bhīṣma Parva).


_______________________________
*5th word in left half of page 488 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मारिषा&oldid=435235" इत्यस्माद् प्रतिप्राप्तम्