मार्गशीर्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्गशीर्षः, पुं, (मार्गशीर्षी + अण् ।) अग्र- हायणमासः । मृगशीर्षेण युक्ता पौर्णमासी मार्गशीर्षी सास्मिन् मासे भवति मार्गशीर्षः ष्णः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । सहाः २ मार्गः ३ आग्रहायणिकः ४ । इत्य- मरः । १ । ४ । १४ ॥ मार्गशिरः ५ सहः ६ । इति शब्दरत्नावली ॥ वृश्चिकस्थरविप्रारब्ध- शुक्लप्रतिपदादिदर्शान्तोऽयं मुख्यचान्द्रः । एता- दृशमुख्यचान्द्रमासीयपौर्णमास्यन्तः अयं गौण- चान्द्रः । वृश्चिकराशिरविकोऽयं सौरः । इति स्मृतिः ॥ * ॥ तत्र जातफलम् । “यस्य प्रसूतिः खलु मार्गमासे तीर्थे प्रवासे सततं मतिः स्यात् । परोपकारी धृतसाधुवृत्तिः सद्वृत्तियुक्तो ललनाभिलाषी ॥” इति कोष्ठीप्रदीपः ॥ * ॥ (तथास्य विषयः ॥ कार्त्तिकमार्गशीर्षौ शरत् । इति सुशुते सूत्रस्थाने षष्ठेऽध्याये ॥) अथ मार्गशीर्षकृत्यम् । आश्विनशुक्लपक्षे नवान्नश्राद्धाकरणे मार्ग- शीर्षस्य विंशतिदण्डाधिकत्रयोविंशतिदिनाभ्य- न्तरे शुक्लपक्षे तत् श्राद्धं कर्त्तव्यम् । तत्र मार्ग- शीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयेतरेषु कुजशनिशुक्रवारेतरेषु नन्दारिक्तात्रयोदशीतर- तिथिषु जन्माष्टमचन्द्रजन्मतिथिजन्मनक्षत्रत्रय- पञ्चमतारात्रयेतरेषु पूर्ब्बात्रयमघाभरण्यश्लेषा- र्द्रेतरेषु नक्षत्रेषु श्राद्धं तच्छेषभोजनञ्च कुर्य्यात् । श्राद्धानधिकारिणा तु प्रागुक्तकाले देवादिभ्यो नवान्नं दत्त्वा भोक्तव्यम् । किन्तु अश्लेषाकृत्तिका- ज्येष्ठामूलापूर्ब्बभाद्रपदकेषु अपि नवान्नभोजनं न कर्त्तव्यम् । चन्दताराद्यशुद्धौ प्रतीकारमाह देवलः । “कर्म्म कुर्य्यात् फलावाप्त्यै चन्द्रादिशोभने बुधः । सुस्थकाले त्विदं सर्व्वं नार्त्तः कालमपेक्षते ॥ चन्द्रे च शङ्खं लवणञ्च तारे तिथावभद्रे सिततण्डुलांश्च । धान्यञ्च दद्यात् करणर्क्षवारे योगे तिलान् हेममणिञ्च लग्ने ॥ राजमार्त्तण्डे ताराभेदाल्लवणपरिमाणमाह । “एकत्रिपञ्चसप्त च द्बिजाय दद्यात् पलानि लवणस्य । क्रमशो जन्मविपत्प्रत्यरिमरणाख्यतारासु ॥ पलन्तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥ तत एवं दध्याज्यसंयुक्तं नवं विप्राभिमन्त्रितम् । मन्त्रानादेशे गायत्त्रीति गायत्त्र्यभिमन्त्रितम् ॥ नवमन्नं ब्राह्मणानुज्ञां गृहीत्वा प्राश्नीयात् । नूतनधान्यासम्भवे पुरातनेनापि श्राद्धं कर्त्तव्यम् । वृश्चिके शुक्लपक्षे तदकरणे हरिशयनात् पूर्ब्बं मीनधनुस्थरवीतरत्र माघादौ कर्त्तव्यम् ॥ * ॥ वृश्चिकस्थरवौ शुक्लचतुर्द्दश्यां सौभाग्यकामः पाषाणाकारपिष्टकैर्देवीं पूजयेत् तदपि भक्षये- न्नक्तम् ॥ * ॥ अग्रहायण्यां पौर्णमास्यां पार्व्वण- विधिना श्राद्धमावश्यकम् ॥ * ॥ भविष्यपुराणे । “रोहिण्या प्रतिपद्युक्ता मार्गे मासि सितेतरा । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥” इति कृत्यतत्त्वम् ॥ (स्त्रियां आग्रहायणी पूर्णिमा । यथा, महा- भारते । ३ । ९३ । २६ । “मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्गशीर्ष पुं।
मार्गशीर्षामासः
समानार्थक:मार्गशीर्ष,सहस्,मार्ग,आग्रहायणिक
1।4।14।4।1
समरात्रिन्दिवे काले विषुवद्विषुवं च तत्. पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे। मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्गशीर्ष¦ पु॰ साधनं मार्गशिरवत्।
१ अग्रहायणे मासि। अमरः।
२ तत्पौर्णमास्यां स्त्री ङीप्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्गशीर्ष¦ m. (-र्षः) The month Ma4rgas4irsha: see the last.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्गशीर्ष/ मार्ग--शीर्ष mf( ई)n. born under the constellation मृग-शिरस्Pa1n2. 4-3 , 37 Sch.
मार्गशीर्ष/ मार्ग--शीर्ष m. (also with मास)N. of the month in which the full moon enters the -constconstellation मृग-शिरस्, the 10th or (in later times) the 1st month in the year = November-December , Kaus3. Mn. MBh. etc.
मार्गशीर्ष/ मार्ग--शीर्ष f( ईor आ). (with or without पौर्णमासी)the day on which the full moon enters the -constconstellation मृग-शिरस्, the 15th -dday of the first half of the month मार्गशीर्ष, Gr2S. MBh.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Mārgaśīrṣa : m.: Name of a month.
A. Importance: Bhagavān, while describing his vibhūtis to Arjuna, said that he was the Mārgaśīrṣa among the months (māsānāṁ mārgaśīrṣo 'ham) 6. 32. 35.
B. Religious rites: upavāsa: Bhīṣma told Yudhiṣṭhira that one who spent the month of Mārgaśirṣa taking food only once a day and fed the twice-born with devotion would be freed from diseases and sins; he would also be born enjoying all blessings, possessing all medicinal herbs, reaping good harvest, wealthy, and would have many sons (sarvakalyāṇasaṁpūrṇaḥ sarvauṣadhisamanvitaḥ/ kṛṣibhāgī bahudhano bahuputraś ca jāyate) 13. 109. 18.
_______________________________
*2nd word in right half of page p264_mci (+offset) in original book.
previous page p263_mci .......... next page p265_mci
Mahabharata Cultural Index