मिथ्या

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्या, व्य, (मथते इति । मथविलोडने । मेथते हिनस्ति वेति । मथ वा मेथ + क्यप् । निपा- तनात् साधु ।) असत्यम् । तत्पर्य्यायः । मृषा २ वितथः ३ अनृतम् ४ । इति शब्दरत्नावली ॥ मिछा इति भाषा ॥ (यथा, -- “यदसद्भासमानं तन्मिथ्या स्वाप्नगजादिवत् ।” इति सांख्यप्रवचनभाष्यधृतम् ॥ सा चाधर्म्मपत्नी । यथा, -- “अधर्म्मपत्नी मिथ्या सा सर्व्वधूर्त्तैश्च पूजिता । यया विना जगन्मुक्तमुच्छन्नं विधिनिर्म्मितम् ॥ सत्ये चादर्शना या च त्रेतायां सूक्ष्मरूपिणी । अर्द्धावयवरूपा च द्बापरे संवृता भिया ॥ कलौ महाप्रमत्ता च सर्व्वत्र व्यापिका बलात् । कपटेन समं भ्रात्रा भ्रमत्येव गृहे गृहे ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥ अपि च । “अधर्म्मस्य प्रिया रम्या मिथ्या मार्ज्जार- लोचना । तस्याः पुत्त्रोऽतितेजस्वी दम्भः परमकोपनः ॥ स मायायां भगिन्यान्तु लोभं पुत्त्रञ्च कन्यकाम् । निकृतिं जनयामास तयोः क्रोधः सुतोऽभवत् ॥” इति कल्किपुराणे १ अध्यायः ॥ विषयभेदे मिथ्याभाषणे दोषाभावो यथा, -- शर्म्मिष्ठोवाच । “न नर्म्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्व्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥” मिथ्याकथने दोषो यथा, -- “पृष्टास्तु साक्ष्ये प्रवदन्ति येऽन्यथ भवन्ति मिथ्यापतिता नरेन्द्र ! । एकार्थतायान्तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥” ययातिरुवाच । “राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्त्तुमुत्सहे ॥” इति मात्स्ये ३१ अध्यायः ॥ अथासत्याभिधानप्रायश्चित्तम् । तत्र सकृद- सत्यभाषणे कृष्णानुस्मरणं प्रायश्चित्तम् । यथा, विष्णुपुराणम् । “कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तन्तु तस्यैकं कृष्णानुस्मरणं परम् ॥” अत्यन्ताभ्यासे विष्णुः । निन्दितेभ्यो धनादानं बाणिज्यं कुसीदजीवनम् । असत्यभाषणं शूद्र- सेवनमित्यपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति । अतिबहुतरकालाभ्यासे मनुः । “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ।” चातुर्व्वर्णवधे साक्ष्येऽनृतभाषणेऽनुपातकत्वाभा- वाल्लघु प्रायश्चित्तमाह याज्ञवल्क्यः । “वर्णिनां हि वधो यत्र तत्र साक्ष्येऽनृतं वदेत् । तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥” शूद्रे तु विष्णः । तत्पावनाय कुष्माण्डीभिर्द्विजो- ऽग्निं जुहुयात् । शूद्रश्चैकोद्दिष्टं गोदशकस्य ग्रासं विदध्यात् । विषयविशेषेऽपवादमाह हारीतः । सोमविक्रयकन्याविवाहभयमैथुन- बालकसंज्ञपनं गोब्राह्मणहितञ्च कुर्व्वन् मिथ्या न लिप्यत इति । तथा च यमः । “न नर्म्मयुक्तं वचनं हिनस्ति न स्वैरवाक्यं न च मैथुनार्थे । प्राणात्यये सर्व्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥” इति प्रायश्चित्तविवेकः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्या अव्य।

असत्यम्

समानार्थक:मृषा,मिथ्या

3।4।15।1।2

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्या¦ अव्य॰ मिथ--क्यप्। अयथार्थे असत्ये।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्या¦ Ind.
1. Falsely, untruly.
2. In vain. E. मिथ् to injure, aff. क्यप् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्या [mithyā], ind. [मिथ्-क्यप्]

Falsely, deceitfully, wrongly, incorrectly; oft. with the force of an adjective; मणौ महानील इति प्रभावादल्पप्रमाणे$पि यथा न मिथ्या R.18.42; यदुवाच न तन्मिथ्या 17.42; मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः Ś.2.5.

Invertedly, contrarily.

To no purpose, in vain, fruitlessly; मिथ्या कारयते चारैर्घोषणां राक्षसाधिपः Bk.8.44; मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति Bg.18.59. (मिथ्या वद्-वच् to tell a falsehood, lie. मिथ्या कृ

to falsify.

to contradict. मिथ्या भू to turn out false, be false. मिथ्या ग्रह् to misunderstand, mistake.) At the beginning of comp. मिथ्या may be translated by 'false, untrue, unreal, sham, pretended, feigned' &c. -Comp. -अध्यवसितिः f. a figure of speech, an expression of the impossibility of a thing by making it depend upon an impossible contingency; किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्या- र्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत् खस्रजं वहन् ॥ Kuval. -अपवादः a false charge. -अभिधानम् a false assertion. -अभियोगः a false or groundless charge.-अभिशंसनम् calumny, false accusation.

अभिशापः a false prediction.

a false or unjust claim. -आचारa.

acting falsely.

hypocritical.

(रः) wrong treatment (in medic.).

wrong or improper conduct.

a rogue, hypocrite; इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते Bg.3.6. -आहारः wrong diet. -उत्तरम् a false or prevaricating reply.

उपचारः pretended kindness or service; मिथ्योपचारैश्च वशीकृतानां किमर्थिनां वञ्चयितव्यमस्ति H.

(in medic.) a wrong treatment of a malady.-कर्मन् n. a false act. -कारुणिक a. pretending to be kind; मिथ्याकारुणिको$सि निर्घृणतरस्त्वत्तः कुतो$न्यः पुमान् Pt. 5.14.-क्रोपः, -क्रोधः feigned anger. -क्रयः a false price. -ग्रहः useless obstinacy or persistence. -ग्रहः, ग्रहणम् misconception, misunderstanding. -चतुर्विधम् four types of lying; मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काटे इति मिथ्याचतुर्विधम् ॥ -चर्या hypocrisy. -जल्पितम् a false report or speech. -ज्ञानम् a mistake, error, misapprehension. -दर्शनम् heresy. -दृष्टिः f. heresy, holding heretic or atheistic doctrines. -निरसनम् denial by oath.-पण्डित a. educated or learned only in appearance.-पुरुषः a man only in appearance. -प्रतिज्ञ a. false to one's promise, perfidious. -प्रत्ययः an erroneous perception; यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः ŚB. on MS.1.1.2. -फलम् an imaginary advantage.-मतिः f. delusion, mistake, errror. -योगः wrong use or application. -लिङ्गधर a. being anything only in appearance. -वचनम्, -वाक्यम्, -वादः an untrue speech, a falsehood, lie. -वाक्, -वादिन् a. lying, false, untruthful; मिथ्यावादिनि दूति ...... K. P. -वार्ता a false report. -व्यापारः meddling with another's affairs.-वृत्त a. of vicious conduct; उद्योगं तव संप्रेक्ष्य मिध्यावृत्तं च रावणम् Rām.6.17.66. -साक्षिन् m. a false witness.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्या ind. (contracted from मिथूया)invertedly , contrarily , incorrectly , wrongly , improperly S3Br. etc. etc. (with Caus. , of कृ, to pronounce a word wrongly " once " [P.] or " repeatedly " [ A1. ] Pa1n2. 1-3 , 71 ; with प्र-चर्, to act wrongly Mn. ix , 284 ; with प्र-वृत्, to behave improperly MBh. iii , 2414 ); falsely , deceitfully , untruly Mn. MBh. etc. (often with ब्रू, वच्or वद्, to speak falsely , utter a lie ; with कृ, to deny MBh. ; to break one's word , with न-कृ, to keep it) R. ; with भू, to turn out or prove false MBh. ; not in reality , only apparently Madhus. ; to no purpose , fruitlessly , in vain MaitrUp. MBh. etc. ( ibc. often = false , untrue , sham ; मिथ्याis personified as the wife of अ-धर्मKalkiP. )

मिथ्या etc. See. col. l.

"https://sa.wiktionary.org/w/index.php?title=मिथ्या&oldid=352949" इत्यस्माद् पुनः प्राप्तिः