मुण्डः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्डः, पुं, (मुण्डनं मुण्डः केशापनयनं मुडि खण्डने भावे घञ् । ततः अर्श आद्यच् इत्यमर- टीकायां रायभरतौ ।) वलिराजस्य सैनिक- दैत्यविशेषः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । २३२ । ५ । “एकाक्ष एकपान्मुण्डो विद्युदक्षश्चतुर्भुजः ।” शुम्भसेनापतिर्दैत्यभेदः । यथा, माकण्डेयपुराणे । ८७ । २८ । “हे चण्ड ! हे मुण्ड ! वलैर्बहुलैः परिवारितौ ।”) मुण्डमेवावयवत्वेनास्त्यस्य । अच् ।) राहुग्रहः । इति मेदिनी । डे, २२ ॥ (मुण्डं मुण्डनं जीवि- कात्वेनास्त्यस्य । अच् ।) नापितः । इति जटाधरः ॥ (मुण्डनं स्कन्धावच्छेदे खण्डनम- स्त्यस्य । अच् ।) स्थाणुवृक्षः । इति केचित् ॥

मुण्डः, पुं, क्ली, (मुण्ड + अच् ।) मूर्द्धा । इति मेदिनी । डे, २२ ॥

मुण्डः, त्रि, मुण्डितः । इत्यमरः । २ । ६ । ४८ ॥ द्वे मुण्डितमुण्डे । मुडि खण्डने भावे घञि मुण्डो मुण्डनं केशापनयनं तद्योगात् अर्श आद्यचि मुण्डः पुमान् स्त्रियां मुण्डा । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । १ । ११९ । ८ । ‘चरन् भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥’)

"https://sa.wiktionary.org/w/index.php?title=मुण्डः&oldid=158316" इत्यस्माद् प्रतिप्राप्तम्