सामग्री पर जाएँ

मुद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रा, स्त्री, (मोदते अनयेति । मुद् + “स्फायि- तञ्चीत्यादि ।” उणा० २ । १३ । इति रक् अतः टाप् ।) प्रत्ययकारिणी ॥ इति त्रिकाण्ड- शेषः । नामेर मोहर इति भाषा ॥ अङ्गुलि- मुद्रा । इति शब्दरत्नावली ॥ छापेर आङ्गुटी इति भाषा । स्वर्णरौप्यादिमुद्रिका च । (यथा, अभिज्ञानशाकुन्तले । २ । “इमां मुद्रां त्वदङ्गुलौ निवेशयता मया ।” चिह्नम् । यथा, श्रीमद्भागवते । ३ । २४ । १७ । “ज्ञानविज्ञानयोगेन कर्म्मणामुद्धरन् जटाः । हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥”) मोहर टाका इत्यादि भाषा । इति लोक- प्रसिद्धिः ॥ * ॥ पञ्चधालिप्यन्तर्गतलिपिविशेषः । छापार अक्षर इति भाषा । यथा, -- “मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः । एताभिर्लिपिभिर्व्याप्ता धरित्रीं शुभदा हर ! ॥” इति वाराहीतन्त्रम् ॥ “लेखन्या लिखितं विप्रैर्मुद्राभिरङ्कितञ्च यत् ॥ शिल्पादिनिर्म्मितं यच्च पाठ्यं धार्य्यञ्च सर्व्वदा ॥ इति खड्गमालातन्त्रम् ॥ * ॥ पञ्चमकारान्तर्गतभृष्टद्रव्यविशेषः । यथा, -- “पृथुकास्तण्डुला भृष्टा गोधूमचणकादयः । तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी ॥” इति निर्व्वाणतन्त्रे ११ पटलः ॥ तस्याः शोधनं यथा, -- “ओ~ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम् । ओ~ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत् परमं पदम् । इति मन्त्राभ्यां शाधनम् । इति स्वतन्त्रतन्त्रम् ॥ शरीरे धार्य्यभगवदायुधादिचिह्नम् । छाप इति भाषा । यथा, -- “ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः । मत्स्यकूर्म्मादिचिह्नानि चक्रादीन्यायुधानि च ॥ अथ मुद्राधारणनित्यता स्मृतौ । “अङ्कितः शङ्खचक्राभ्यामुभयोर्व्वाहुमूलयोः । समर्च्चयेद्धरिं नित्यं नान्यथा पूजनं भवेत् ॥” आदिपुराणे । “शङ्खचक्रोर्द्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम् । गर्द्दभं तु समारोप्यराजा राष्ट्रात् प्रवासयेत् ॥” गारुडे श्रीभगवदुक्तौ । “सर्व्वकर्म्माधिकारश्च शुचीनामेव चोदितः । शुचित्वञ्च विजानीयान्सदीयायुधधारणात् ॥” इति पाद्मे चोत्तरखण्डे । “शङ्खचक्रादिभिश्चिह्नैर्विप्रः प्रियतमैर्हरेः । रहितः सर्व्वधर्म्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥” श्रुतौ च यजुःकठशाखायाम् । “धृतोर्द्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा । स्मरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन्महतो महान्तम् ॥” ऊर्द्ध्वं संयोजयेन्नाभौ अस्योपरि तथाञ्जलिः । योगमुद्रा समाख्याता योगिनां तत्त्वदायिनी ॥ सर्व्वेषामपि देवानां पूजने चिन्तने तथा । योगमुद्रा समाख्याता तुष्टिप्रीतिकरी सदा ॥ ४९ ॥ प्राञ्जलिर्नाम मुद्रा तु उर्द्ध्वाधोभावयोजिताम् । विभिद्य दर्शयेद्धस्तौ उर्द्ध्वाधः प्रसृतीकृतौ ॥ भेदमुद्रा समाख्याता मम विष्णोर्विधेः प्रिया । ५० । अङ्गष्ठे द्वे तु निःक्षिप्य करयोरुभयोस्तले ॥ अग्रेण योजयेत् पश्चात् कनिष्ठायुगलं ततः । उभयोर्हस्तयोश्चान्यास्तर्ज्जन्याद्याश्च योजयेत् ॥ अग्राग्रैस्तु पृथक्कृत्य दर्शयेत्तत् कनिष्ठिकाम् । मुद्रा सम्मोहनं नाम कामदुर्गारमाप्रिया ॥ सर्व्वेषामपि देवानां मोहनं प्रीतिदं स्मृतम् । ५१ । आनम्य सव्यहस्तस्य मध्यमानामिके तथा ॥ तयोः पृष्ठे तु संयोज्य अङ्गुष्ठाग्रं ततः परम् । कनिष्ठां तर्ज्जनीञ्चैव अग्रेण योजयेत्ततः ॥ बाणमुद्रा समाख्याता सर्व्वदेवस्य तुष्टिदा । ५२ । सर्व्वाङ्गुलीस्तु सङ्कोच्य अङ्गुष्ठमथ तर्जनीम् ॥ प्रसार्य्य करयोः पश्चादङ्गुष्ठाग्रन्तु योजयेत् । अङ्गुष्ठाग्रेण तर्ज्जन्या अग्रेणापि च तर्ज्जनीम् ॥ यथाशक्ति प्रसार्य्यापि धनुर्मुद्रा प्रकीर्त्तिता । ५३ । सर्व्वाङ्गुलीनामग्राणि ब्राह्म्यतीर्थे नियोजयेत् ॥ अनामिकायाः पृष्ठे तु अङ्गुष्ठाग्रं नियोजयेत् । शून्यं तूणीरवत् कृत्वा तेषामन्तस्तु भैरव ! । तूणीरमुद्रा चाख्याता सर्व्वेषां प्रीतिवर्द्धिनी ॥ ५४ ॥ मुद्रासु संस्थिता पूजा मुद्रासु परिचिन्तनम् । मुद्रासु संस्थिता योगा मुद्रा मोदकरास्ततः ॥ यदा यदा पूजनेषु चिन्तने ध्यानकर्म्मणि । यज्ञादौ स्तवने वापि हस्तकृत्यं न विद्यते । तदा मुद्रायुतं कुर्य्यादिष्टापूर्त्ते करद्वयम् ॥ यज्ञकृत्येषु चेच्छक्तो हस्तो मुद्रासु च क्षमः । तदा मुद्रां विधायैव तत्तु कृत्यं समाचरेत् ॥ मुद्रावियुक्तहस्तन्तु क्रियते कर्म्मदैविकम् । कृत्वा तन्निष्फलं यस्मात्तस्मान्मुद्रान्वितो भवेत् ॥ विसर्जने तु देवानां यस्य या परिकीर्त्तिता । मुद्रां तां पूजनादौ तु तस्य नैव प्रयोजयेत् ॥ विसृष्ट्युक्तामृते मुद्रां मुद्रायुक्तः समाचरेत् । पूजनादि समस्तञ्च कर्म्म वृद्ध्यै विचक्षणः ॥ ततो मुद्रा परं धाम मुद्रा पुण्यप्रदायिनी । देवानां मोददा मुद्रा तस्मात्तां यत्नतश्चरेत् ॥ अर्द्धयोनिर्म्महायोनिर्योनिर्ब्राह्मी च वैष्णवी । मुद्रा विसर्ज्जने प्रोक्ता शिवात्रिपुरयोः सदा ॥ दुर्गायाः सर्व्वरूपेषु मुद्रा एताः प्रकीर्त्तिताः । योनिञ्च सम्पुटञ्चैव महायोनिन्तथैव च ॥ वर्ज्जयित्वा व्यस्तभावादुक्तादन्यत्र योजयेत् । भवेयुस्तु त्रिपञ्चाशदन्या मुद्राः समन्ततः ॥ ता व्यस्तभावाद्वामाः स्युर्मुद्रा मोदकराः पराः । एवं वां कथिता मुद्राः पूजने पूज्यतुष्टिदाः ॥” इति कालिकापुराणे ६५ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रा¦ स्त्री मुद--रक।

१ प्रत्ययकारिण्याम् (मोहर) त्रिका॰

२ अङ्गुलिस्थे मुद्राङ्कनयुक्ताङ्गुलीयके शब्दर॰

३ स्वर्णरौप्या-दितङ्कायाम

४ अप्रकाशे।
“मुद्रालिपिः शिल्पलिपिर्लिपि-र्लेखनिसम्भवा। गुण्डिकाघुणसम्भूता लिपयः पञ्चधामताः” इत्युक्तलिपिमध्ये

५ लिपिभेदे वाराहीतन्त्रम्।
“लेखन्या लिखितं विप्रैर्मुद्वाभिरङ्कितञ्च यत्। शिल्पा-दिनिर्मितं यच्च पाठ्यं धार्य्यञ्च सर्वदा” मुण्डमालात॰। [Page4757-b+ 38]

६ तन्त्रप्रसिद्धे वीराचरसेव्ये
“पृथुकास्तण्डुला भ्रष्टागोधूमचणकादयः। तस्य नाम भवेन्मुद्रा” इत्युक्ते पञ्च-मकारान्तर्गतद्रव्यभेदे

७ देवविशेषाराधनायाङ्गुल्यादिसन्नि-वेशविशेषे तन्त्रसारः
“योजनात् सर्वदेवानां द्रावणात्पापसहतेः। तस्मात् मुद्रेति सा ख्याता सर्वकामार्थ-साधनी
“मुद्रामक्षगुणमि” ति तन्त्रम्

८ सङ्कोचे च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रा¦ f. (-द्रा)
1. A seal, a signet.
2. A seal-ring.
3. The mark of a seal or similar impression, a stamp, a print, &c.
4. A coin.
5. A medal.
6. A sign, a token.
7. A mystery.
8. A mode of intertwining the fingers during religious worship. E. मुद् to please, (by it,) Una4di aff. रक् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रा [mudrā], [मुद्-रक्]

A seal, an instrument for sealing or stamping; especially a seal-ring, signet-ring; अनया मुद्रया मुद्रयैनम् Mu.1; नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः Ś.1; बभौ मरुत्वान् विकृतः स-मुद्रः Bk.1.19 (fig. also); इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः Bh.2.114.

A stamp, print, mark, impression; चतुःसमुद्रमुद्रः K. 191; सिन्दूरमुद्राङ्कितः (बाहुः) Gīt.4.

A pass, passport (as given by a seal-ring); अगृहीतमुद्रः कटकान्निष्कामसि Mu.5; गृहीतमुद्रः सलेखः पुरुषो गृहीतः Mu.5; शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते (wording on Śivājee's seal).

A stamped coin, coin, piece of money.

A medal.

An image, a sign, badge, token.

Shutting, closing, sealing; सैवौष्ठमुद्रा स च कर्णपाशः U.6.27; क्षिपन्निद्रा- मुद्रां मदनकलहच्छेदसुलभाम् Māl.2.12 'removing the seal of sleep' &c.

A mystery.

(In Rhet.) The expression of things by their right names.

N. of certain positions of the fingers practised in devotion or religious worship; योजनात् सर्वदेवानां द्रावणात् पापसंहतेः । तस्मान्मुद्रेति सा ख्याता सर्वकामार्थसाधनी Tantrasāra; Dk.2.2.

A particular branch of education (reckoning by the fingers).

A dance accordant with tradition.

A lock, stopper.

A nymph; बभौ मरुत्वान् विकृतः स- मुद्रः Bk.1.19.

"Parched grain" in the form of rice, paddy etc. (Yoginī Tantra, Ch.VI quoted in Woodroffe, Śakti and Śākta, 571).

Particular lines, marks; माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा । अष्टापदपदस्थाने दक्ष मुद्रेव लक्ष्यते ॥ Mb.12.298.4.

Type or block for printing.

Comp. अक्षरम् a letter of the seal.

a type (a modern use). -अङ्क, -अङ्कित a. stamped with a seal, sealed, stamped. -अधिपः the keeper of the seal; the officer in charge of the fort; ततो मुद्राधिपो मुख्यः कौक्षेयकसहायवान् Parṇāl.3.37. -अध्यक्षः superintendent of pass-ports; Kau. A.1.1.1. -कारः a maker of seals. -मार्गः an opening believed to exist in the crown of the head through which the soul is said to escape at death; cf. ब्रह्मरन्ध्र. -यन्त्रम् a press, a printing-press (a modern formation). -रक्षकः the keeper of the seals. -राक्षसम् N. of a drama by Viśākha-datta. -लिपिः an alphabet of written characters; मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसंभवा । गुण्डिका घुणसंभूता लिपयः पञ्चधा मताः ॥ -स्थानम् the place (on the finger) for a seal-ring; Ś.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रा f. See. मुद्राbelow.

मुद्रा f. (fr. मुद्रSee. above ) a seal or any instrument used for sealing or stamping , a seal-ring , signet-ring(See. अङ्गुलि-म्) , any ring MBh. Ka1v. etc.

मुद्रा f. type for printing or instrument for lithographing L.

मुद्रा f. the stamp or impression made by a seal etc.

मुद्रा f. any stamp or print or mark or impression MBh. Ka1v. etc.

मुद्रा f. a stamped coin , piece of money , rupee , cash , medal L.

मुद्रा f. an image , sign , badge , token ( esp. a token or mark of divine attributes impressed upon the body) Ka1v. Pur. Ra1jat.

मुद्रा f. authorization , a pass , passport (as given by a seal) Mudr.

मुद्रा f. shutting , closing (as of the eyes or lips gen. or comp. ) Ka1v.

मुद्रा f. a lock , stopper , bung Amar. Bhpr.

मुद्रा f. a mystery Cat.

मुद्रा f. N. of partic. positions or intertwinings of the fingers (24 in number , commonly practised in religious worship , and supposed to possess an occult meaning and magical efficacy Das3. Sarvad. Ka1ran2d2. RTL. 204 ; 406 )

मुद्रा f. a partic. branch of education (" reckoning by the fingers ") DivyA7v.

मुद्रा f. parched or fried grain (as used in the शाक्तor Tantrik ceremonial) RTL. 192

मुद्रा f. (in rhet. )the natural expression of things by words , calling things by their right names Kuval.

मुद्रा f. (in music) a dance accordant with tradition Sam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=मुद्रा&oldid=503555" इत्यस्माद् प्रतिप्राप्तम्