मूलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलकम्, क्ली, पुं, (मूल + संज्ञायां कन् ।) कन्द- विशेषः । मूला इति भाषा । तत्पर्य्यायः । राजालुकः २ महाकन्दः ३ हस्तिदन्तकः ४ । इति हारावली ॥ नीलकण्ठम् ५ मूलाह्वम् ६ दीर्घमूलकम् ७ अत्र दीर्घपत्रकमपि पाठः । मृत्क्षारम् ८ कन्दमूलम् ९ हस्तिदन्तम् १० सितम् ११ शङ्खमूलम् १२ हरित्पर्णम् १३ रुचिरम् १४ दीर्घकन्दकम् १५ कुञ्जरक्षारमूलम् १६ । अस्य गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । कटूष्णेनाग्निदीपनत्वम् । दुर्नामगुल्महृद्रोगवात- नाशित्वम् । रुचिदत्वम् । गुरुत्वञ्च । इति राज- निर्घण्टः ॥ * ॥ अपि च । “बालमूलकपत्री तु रोचनी वह्निदीपनी । मूलकं गुरु विष्टम्भि तीक्ष्णमामं त्रिदोष- कृत् ॥ तदेव स्निग्धसिद्धन्तु पित्तलं कफवातनुत् । शुष्कं त्रिदोषशमनं शोथघ्नं गरजिल्लघु ॥ तत्पुष्पं कफपित्तघ्नं तत्फलं कफवातजित् ॥” इति राजवल्लभः ॥ अन्यच्च । “मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् । शालामकटकं विस्रं शालेयं मरुसम्भवम् ॥ चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका । नैपालमूलकञ्चान्यत्तद्भवेद्गजदन्तवत् ॥ लघुमूलकमुष्णं स्याद्रुच्यं लघु च पाचनम् । दोषत्रयहरं स्वर्य्यं ज्वरश्वासविनाशनम् ॥ नासिकाकण्ठरोगघ्नं नयनामयनाशनम् । महत्तदेवरूक्षोष्णं गुरु दोषत्रयप्रदम् । स्नेहसिद्धं तदेव स्याद्दोषत्रयविनाशनम् ॥” इति भावप्रकाशः ॥ (तथाचास्य गुणाः । “बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् । स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित् ॥” इति चरके सूत्रस्थाने । २७ अध्यायः ॥) सौरमाघे तद्भक्षणे दोषो यथा, -- “मकरे मूलकञ्चैव सिंहे चालावुकन्तथा । कार्त्तिके शूरणञ्चैव सद्यो गोमांसभक्षणम् ॥” इति कर्म्मलोचनम् ॥ पौर्णमास्यान्तमाघमुपक्रम्य । “पितॄणां देवतानाञ्च मूलकं नैव दापयेत् । ददन्नरकमाप्नोति भुञ्जीत ब्राह्मणो यदि ॥ ब्राह्मणो मूलकं भुक्त्वा चरेच्चान्द्रायणं व्रतम् । अन्यथा याति नरकं क्षत्त्रो विट् शूद्र एव च ॥ तथा । “वरं भक्ष्यमभक्ष्यञ्च पिबेद्बा गर्हितञ्च यत् । वर्ज्जनीयं प्रयत्नेन मूलकं मदिरासमम् ॥” इति मलमासतत्त्वम् ॥

मूलकः, पुं, (मूले जातः । मूल + “पूर्ब्बाह्णापरा- ह्णार्द्रामूलप्रदोषावस्कराद्वुन् ।” ४ । ३ । २८ । इति वुन् ।) चतुस्त्रिंशत्स्थावरविषजात्यन्त- र्गतविषभेदः । इति हेमचन्द्रः । ४ । २६८ ॥ (मूलप्रकार इति । मूल + “स्थूलादिभ्यः प्रकार- वचने कन् ।” ५ । ४ । ३ । इति कन् । मूल- स्वरूपः । यथा, भागवते । ९ । ९ । ४१ । “नारीकवच इत्युक्तो निःक्षत्त्रे मूलकोऽभवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलक पुं-नपुं।

शाखाभेदः

समानार्थक:कलम्बी,उपोदका,मूलक,हिलमोचिका,वास्तुक

2।4।157।2।3

अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला। कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलक¦ न॰ मूल + संज्ञायां कन्।

१ कन्दभेदे (मूला) बर्ज्जनीयंसदा विप्रैर्मूलकं मदिरासमम्” इति ब्रह्मपु॰।

३ विमभेदेपु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलक¦ mn. (-कः-कं)
1. The radish, (Raphanus sativus.)
2. A large sort of yam. m. (-कः) A sort of poison. E. मूल a root, कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलक [mūlaka], a.

(At the end of comp.) Rooted in, springing from, founded or based on; भ्रान्तिमूलक 'based on error.'

Born under the constellation Mūla; P.IV. 3.28.

कः, कम् A radish.

An esculent root.

A sort of yam. -कः A kind of poison. -Comp. -पणः a handful of radishes &c. (for sale). -पोतिका a radish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलक mf( इका)n. ( ifc. )rooted in , springing from(666497 -त्वn. ) MBh. Jaim. Sch. etc.

मूलक mf( इका)n. born under the constellation मूलPa1n2. 4-3 , 28

मूलक mn. a radish Mn. Ya1jn5. etc.

मूलक mn. a sort of yam W.

मूलक m. a kind of vegetable poison L.

मूलक m. N. of a prince (a son of अश्मक) Pur.

मूलक n. a root MBh. Pan5car.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of अश्मक; when the क्षत्रियस् were rooted out of the earth, he was protected by naked women; hence he was known as नारिकवच. The originator of the new क्षत्रिय race after its ruin by परशुराम; father of दशरथ. भा. IX. 9. ४०-1; Br. III. ६३. १७८; Vi. IV. 4. ७३-5; वा. ८८. १७८-9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MŪLAKA : , A son of Kumbhakarṇa. Mūlaka was born on Mūla day and Kumbhakarṇa deeming that day and the constellation inauspicious threw the baby away. The abandoned child was brought up by honey-bees giving the babe honey. When Mūlaka grew up he became a mighty demon who always tormented people. He was killed by Sītā with the help of Śrī Rāma. (Ānanda Rāmāyaṇa, Rājyakāṇḍa).


_______________________________
*4th word in left half of page 509 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मूलक&oldid=435475" इत्यस्माद् प्रतिप्राप्तम्