मूलकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलकम्, क्ली, पुं, (मूल + संज्ञायां कन् ।) कन्द- विशेषः । मूला इति भाषा । तत्पर्य्यायः । राजालुकः २ महाकन्दः ३ हस्तिदन्तकः ४ । इति हारावली ॥ नीलकण्ठम् ५ मूलाह्वम् ६ दीर्घमूलकम् ७ अत्र दीर्घपत्रकमपि पाठः । मृत्क्षारम् ८ कन्दमूलम् ९ हस्तिदन्तम् १० सितम् ११ शङ्खमूलम् १२ हरित्पर्णम् १३ रुचिरम् १४ दीर्घकन्दकम् १५ कुञ्जरक्षारमूलम् १६ । अस्य गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । कटूष्णेनाग्निदीपनत्वम् । दुर्नामगुल्महृद्रोगवात- नाशित्वम् । रुचिदत्वम् । गुरुत्वञ्च । इति राज- निर्घण्टः ॥ * ॥ अपि च । “बालमूलकपत्री तु रोचनी वह्निदीपनी । मूलकं गुरु विष्टम्भि तीक्ष्णमामं त्रिदोष- कृत् ॥ तदेव स्निग्धसिद्धन्तु पित्तलं कफवातनुत् । शुष्कं त्रिदोषशमनं शोथघ्नं गरजिल्लघु ॥ तत्पुष्पं कफपित्तघ्नं तत्फलं कफवातजित् ॥” इति राजवल्लभः ॥ अन्यच्च । “मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् । शालामकटकं विस्रं शालेयं मरुसम्भवम् ॥ चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका । नैपालमूलकञ्चान्यत्तद्भवेद्गजदन्तवत् ॥ लघुमूलकमुष्णं स्याद्रुच्यं लघु च पाचनम् । दोषत्रयहरं स्वर्य्यं ज्वरश्वासविनाशनम् ॥ नासिकाकण्ठरोगघ्नं नयनामयनाशनम् । महत्तदेवरूक्षोष्णं गुरु दोषत्रयप्रदम् । स्नेहसिद्धं तदेव स्याद्दोषत्रयविनाशनम् ॥” इति भावप्रकाशः ॥ (तथाचास्य गुणाः । “बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् । स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित् ॥” इति चरके सूत्रस्थाने । २७ अध्यायः ॥) सौरमाघे तद्भक्षणे दोषो यथा, -- “मकरे मूलकञ्चैव सिंहे चालावुकन्तथा । कार्त्तिके शूरणञ्चैव सद्यो गोमांसभक्षणम् ॥” इति कर्म्मलोचनम् ॥ पौर्णमास्यान्तमाघमुपक्रम्य । “पितॄणां देवतानाञ्च मूलकं नैव दापयेत् । ददन्नरकमाप्नोति भुञ्जीत ब्राह्मणो यदि ॥ ब्राह्मणो मूलकं भुक्त्वा चरेच्चान्द्रायणं व्रतम् । अन्यथा याति नरकं क्षत्त्रो विट् शूद्र एव च ॥ तथा । “वरं भक्ष्यमभक्ष्यञ्च पिबेद्बा गर्हितञ्च यत् । वर्ज्जनीयं प्रयत्नेन मूलकं मदिरासमम् ॥” इति मलमासतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=मूलकम्&oldid=158589" इत्यस्माद् प्रतिप्राप्तम्