मृगराजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगराजः, पुं, (मृगाणां पशूनां राजा अधिपतिः । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ॥) सिंहः । इति शब्दरत्नावली ॥ (यथा, रघुवंशे । ६ । ३ । “शिलाविभङ्गैर्मृगराजशाव- स्तुङ्गं नगोत्सङ्गमिवारुरोह ॥” व्याघ्रः । यथा, महाभारते । १ । १४१ । ३४ । “शृणु मे त्वं महाबाहो ! यद्वाक्यं मूषिकोऽब्रवीत् । धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ।”)

"https://sa.wiktionary.org/w/index.php?title=मृगराजः&oldid=158721" इत्यस्माद् प्रतिप्राप्तम्