मृत्युः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्युः, पुं, (म्रियते अस्मादिति मृ + “भुजिमृङ्भ्यां युक् त्युकौ ।” उणा० । ३ । २१ । इति त्युक् ।) यमः । इति हेमचन्द्रः ॥ कंसः । यथा, -- “प्रत्यर्प्य मृत्यवे पुत्त्रान् मोचये कृपणामिमाम् । सुता मे यदि जायेरन् मृत्युर्व्वा न म्रियेत चेत् ॥” इति श्रीभागवते १० स्कन्धे १ । ४९ ॥

मृत्युः, पुं, क्ली, प्राणवियोगः । तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३ दिष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७ नाशः ८ मरणम् ९ निधनः १० । इत्यमरः ॥ पञ्चत्वम् ११ मृतम् १२ मृतिः १३ । इति तट्टीकायां रमानाथः ॥ नैधनम् १४ । इति तट्टीकासारसुन्दरी ॥ संस्था १५ कालः १६ परलोकगमः १७ दीर्घनिद्रा १८ निमीलनम् १९ अस्तम् २० अवसानम् २१ । इति हेमचन्द्रः ॥ भूमिलाभः २२ निपातः २३ विलयः २४ आत्य- यिकम् २५ । इति शब्दरत्नावली ॥ अप्ययः २६ । (मरणार्थे यथा, -- “क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा । न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥ प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् । पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥” इति सुश्रुते सूत्रस्थाने ३१ अः ॥ “एकोत्तरं मृत्युशतमथर्व्वाणः प्रचक्षते । तत्रैकः कालसंज्ञस्तु शेषास्त्वागन्तवः स्मृताः ॥ दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ । रक्षेतां नृपतिं नित्यं यत्नाद्बैद्यपुरोहितौ ॥” इति च तत्र तत्स्थाने । ३४ अः ॥) तत्प्रमाणं यथा, -- “अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्व्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥” इति श्रीमद्भागवते ११ स्कन्धे । १६ । १० ॥ स तु ब्रह्मणो गुदतो जातः । यर्था, -- “पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ! । हिंसाया निरृते मृर्त्योर्निरयस्य गुदं स्मृतम् ॥” इति श्रीभागवते २ स्कन्धे ५ अध्यायः ॥ कल्पान्तरे भयात् मायायां जातः । यथा, -- “हिंसा भार्य्या त्वधर्म्मस्य तयोर्जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां भयं नरकमेव च ॥ माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ वेदना च सुतञ्चापि दुःखं जज्ञेऽथ रौरवात् । * । अस्यापत्यादि यथा, -- “मृर्त्योर्व्याधिर्जराशोकतृष्णाक्रोधाश्च जज्ञिरे । दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः । मृत्व्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ य इदं पठति स्तोत्रं त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । विचिन्त्य सूर्य्यादतिराजमानं मृत्युं स योगी जितवांस्तदैव ॥” इति गारुंडे २३८ अध्यायः ॥ * ॥ शुभकर्म्मप्रतिबन्धकमृत्युदा योगा यथा, -- “आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः । बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥” अपि च । “रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः । उत्पाटा मृत्यवः काला अमृतानि यथाक्रमम् ॥” इति ज्योतिस्तत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्युः [mṛtyuḥ], [मृ त्युक्]

Death, decease; जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च Bg.2.27; मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति.

Yama, the god of death.

An epithet of Brahman.

Of Viṣṇu.

Of Māyā.

Of Kali.

The god of love.

The worldly life (संसार); (नमो) अनात्मने स्वात्मविभक्तमृत्यवे Bhāg.1.86.48.

N. of the 8th astrological house.

The deity taking away life in the body; यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति Bri. Up.1.4.11; यमं कालं च मृत्युं च-स्वर्गं संपूज्य चार्हतः Mb.12.2.3.

= अशनाया q. v.; Bri. Up.1.2.1. -Comp. -तूर्यम् a kind of drum beaten at obsequial rites. -द a. fatal. -द्वारम् the door leading to death. -नाशकः quicksilver. -नाशनम् the drink of immortality, ambrosia. -पाः an epithet of Śiva. -पाशः the noose of death or Yama.

पुष्पः the sugarcane.

the bamboo. -प्रतिबद्ध a. liable to death. -फलम् a kind of poisonous fruit. -फला, -ली the plantain. -बीजः, -वीजः a bamboo-cane. -भृत्यः sickness, disease. -राज् m. Yama, the god of death.

लोकः the world of the dead, the world of Death or Yama.

earth, the world of mortals; cf. मर्त्यलोक.

वञ्चनः an epithet of Śiva.

a raven. -सूतिः f. a female crab; for explanation of this word read यथा कर्कटकी गर्भमाधत्ते मृत्यवे निजम् Purāṇam.

"https://sa.wiktionary.org/w/index.php?title=मृत्युः&oldid=364920" इत्यस्माद् प्रतिप्राप्तम्