मृदङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदङ्गः, पुं, (मृद्यते आहन्यते असौ इति । मृद् + “विडादिभ्यः कित् ।” उणा० १ । १२० । इति अङ्गच् । सच कित् । यद्वा, मृत् अङ्गमस्येत्यमर- टीकायां रघुनाथः ।) स्वनामख्यातवाद्यम् । तत्पर्य्यायः । मुरजः २ । इत्यमरः । १ । ७ । ५ ॥ (यथा, शिशुपालवधे । ११ । २ । “रजनिविरतिशंसी कामिनीनां भविष्यद्- विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥”) पटहः । घोषः । इति मेदिनी । गे, ४७ ॥ वंशः । इति शब्दमाला ॥ (मृदङ्गादेर्मङ्गल- जनकत्वमाह स्मृतिः । “रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्य्यं प्रातः पश्येत् सदा बुधः ॥”) दक्क तगदक्क धिक्क तदिदक्क दं गदं गखो गखोक तक तक धिक तधिक् तधो ढेञ धोटेञ धटे गल खोगगल खोग खोहट गें टगें खोह- टञ । इत्यस्य छन्दनम् । इति सारिगोणी ॥ नादो यथा, -- “दांकारत्रितयं पूर्ब्बं दां धिगिति ततस्त्रयम् । दां दां धिकत्रयं यत्र इति नादः शचीप्रियः ॥” इति नादः ॥ “द्रुतं मानसमारब्धं शुद्धं कूटविनिर्म्मितम् । सप्तषण्डमयं वाद्यं कथितं तदिहोच्यते ॥” * ॥ द्रुतमानत्वात् प्रतिताले यथा । तत्तत तत्तत तक्कि तक्कि दिदं धिगनथो धिगनथो धिक्क धिक् धिक्क धिक्क धिक नगि नगमि थो थो धि धि धिः दां दां धिक्क थो थो हथो हनञि थो नञिथो थोह थोह डेढि डेढि थोह थोह तटि तटि तटुक गीं गीं धगि धगि तत तधे तत तधे ततत गिङी ञङी थोग थोग थों थोगग थोगथो तत्ततो । “इति सप्तपदान्याहुः कथितं वाद्यपण्डिताः । प्रतितालेन तालेन पादवर्णसमासतः ॥ गन्धर्व्वपतिना पूर्ब्बमुर्व्वशीलास्यनर्त्तने । सुधर्म्मारञ्जनार्थञ्च कथितं प्रकटीकृतम् ॥” प्रहरणं यथा । थोगक्का तद्धिका थाग कट गगों दं थोग दिद्धिक धिक्क धिकटेञ । इत्येक- ताल्यां प्रहरणम् ॥ * ॥ “वाद्यं विमुच्यते येन छन्दनं तन्निगद्यते ।” यथा, तद्धिथो दिञ टेञ तन्नः । इति छन्दनम् ॥ * ॥ मर्द्दलस्त्रयोदशाङ्गुलवाममुखो द्वादशाङ्गुल- दक्षिणमुखः । मुरजस्त्वष्टादशाङ्गुलवाममुखः सप्तदशाङ्गुलदक्षिणमुखः मर्द्दलमुरजयोरयं भेदः । इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदङ्ग पुं।

मृदङ्गः

समानार्थक:मृदङ्ग,मुरज

1।7।5।2।1

चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्. मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः॥

वृत्तिवान् : मृदङ्गवादकः

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदङ्ग¦ पु॰ मृद अङ्गच् किच्च।

१ वाद्यभेदे अमरः।

२ कोषा-तक्या स्त्री रत्नमा॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदङ्ग¦ m. (-ङ्गः)
1. A tobour, a small drum.
2. A double drum.
3. A sound, a noise.
4. A bamboo-cane. E. मृद् to be trampled on, to be beat, Una4di aff. अङ्गच्; also with कन् added मृदङ्गक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदङ्गः [mṛdaṅgḥ], [मृद्-अङ्गच् किञ्च]

A kind of drum or tabor; वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ Bhāg.1.5.38.

A bamboo-cane.

Noise. -Comp. -केतुः N. of Yudhi- ṣṭhira (धर्मराज); मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा Mb.7. 156.18. -फलः the breadfruit tree. -फलिनी (= मृदङ्गी) a species of plant (Mar. घोसाळी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदङ्ग etc. See. मृदंग, col. 2.

"https://sa.wiktionary.org/w/index.php?title=मृदङ्ग&oldid=365311" इत्यस्माद् प्रतिप्राप्तम्