मेघमाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघमालः, पुं, (मेघमाला वर्णसादृश्येन अस्त्यस्य । अर्श आद्यच् ।) रमागर्भजातकल्किदेवपुत्त्रः । यथा । “तथा रमा सिते पक्षे ।” इत्युपक्रम्य । “सा पुत्त्रं सुषुवे साध्वी मेघमालबलाहकौ । महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥” इति कल्किपुराणे ३१ अध्यायः ॥ (प्लक्षद्बीपस्थपर्व्वतविशेषः । यथा, भागवते । ५ । २० । ४ । “सुवर्णो हिरण्यष्ठीवो मेघमाल इति सेतु- शैलाः ॥” राक्षसविशेषः । इति रामायणे । ३ । २९ । ३१ ॥)

"https://sa.wiktionary.org/w/index.php?title=मेघमाल&oldid=158998" इत्यस्माद् प्रतिप्राप्तम्