मेढ्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्रः, पुं, (मेहत्यनेनेति । मिह सेचने + “दाम्नी- शसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।” ३ । २ । १८२ । इति ष्ट्रन् ॥) शिश्नः । (यथा, मनौ । ८ । २८२ । “अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम् ॥”) स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति सुख- बोधः ॥ (यथा, “श्रवणनयनवदनघ्राणगुदमेढ्राणि नवस्रोतांसि नराणां बहिर्मुखान्येतान्येव ॥” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥ शिरः पर्य्यन्तं गताया वज्रनाड्या मूलस्थानम् । यथा, पूर्णानन्दकृतषट्चक्रनिरूपणे । “वज्राख्या मेढ्रदेशाच्छिरसि परिगता मध्यमे स्याज्ज्वलन्ती ।” मेढ्रस्याप्रावृतत्वं जन्मान्तरे कृतस्य महापापस्य चिह्नं कुष्ठविशेषः । यथा, भविष्यपुराणीय- मध्यतन्त्रषष्ठाध्याये । “शृणु कुष्ठगणं विप्र ! उत्तरोत्तरतो गुरुम् । विचर्च्चिका तु दुश्चर्म्मा चर्च्चरीयस्तृतीयकः ॥ विकर्च्चुर्ब्रणताम्रौ च कृष्णश्वेते तथाष्टकम् । एषां मध्ये तु यः कुष्ठी गर्हितः सर्व्वकर्म्मसु ॥ ब्रणवत्सर्व्वगात्रेषु गण्डे भाले तथा नसि ॥” दुश्चर्म्मा अपावृतमेढ्रः इति स्मृतिसंग्रहितारः ॥ पञ्चभूतानां मध्ये पृथिव्या रजोगुणांशत उत्- पन्नो मेढ्रः तथाच वेदान्तपञ्चदश्याम् । “रजोऽंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्दि- याणि तु । वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥” उपस्थेन्द्रियं नाम उपस्थव्यतिरिक्तं उपस्थाश्रयं मूत्रशुक्रोत्सर्गशक्तिमदिन्द्रियं इत्यात्मानात्म- विवेके शङ्कराचार्य्यः । अस्य लक्षणादकं लिङ्ग- शब्दे उपस्थशब्दे च द्रष्टव्यम् ॥) मेषः । इत्य- मरः । २ । ९ । ९६ ॥ (यथास्य पर्य्यायः । “मेढ्रो भेढो हुडो मेष उरभ्र उरणोऽपि च । अविर्वृ ष्णिस्तथोर्णायुःकथ्यन्ते तद्गुणा अथ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्र पुं।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

2।6।76।1।4

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

मेढ्र पुं।

मेषः

समानार्थक:मेढ्र,उरभ्र,उरण,ऊर्णायु,मेष,वृष्णि,एडक,अवि

2।9।76।2।1

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्र¦ पुंस्त्री॰ मिह--ष्ट्रन्।

१ मेषे स्त्रियां ङीष्

२ पुंसोऽसाधा-रणचिह्ने च पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्र¦ m. (-ढ्रः)
1. The penis.
2. A ram. E. मिह् to urine, ष्ट्रन् aff.; also with कन्, मेढ्रक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्रः [mēḍhrḥ], [मिह्-ष्ट्रन्] A ram. -ढ्रम् The male organ of generation, penis; (यस्य) मेढ्रं चोन्मादशुक्राभ्यां हीनं क्लीबः स उच्यते. -Comp. -चर्मन् n. the prepuce. -जः an epithet of Śiva. -रोगः a venereal disease. -शृङ्गी Odina Pinnata (Mar. मेढशिंगी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्र n. or( L. ) m. (fr. 1. मिह्+ त्र)membrum virile , penis AV. etc.

मेढ्र m. a ram L.

"https://sa.wiktionary.org/w/index.php?title=मेढ्र&oldid=367380" इत्यस्माद् प्रतिप्राप्तम्