मेथिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथिका, स्त्री, (मेथतीति । मेथ् + ण्वुल् । टापि अत इत्वम् ।) क्षुपविशेषः । मेथिशाक इति भाषा । तत्पर्य्यायः । मेथिनी २ मेथी ३ दीपनी ४ बहुपुत्त्रिका ५ बोधिनी ६ गन्धबीजा ७ ज्योतिः ८ गन्धफला ९ वल्लरी १० चन्द्रिका ११ मन्था १२ मिश्रपुष्पा १३ कैरवी १४ कुञ्चिका १५ बहु- पर्णी १६ पीतबीजा १७ । अस्या गुणाः । कटु- त्वम् । उष्णत्वम् । रक्तपित्तप्रकोपणत्वम् । अरो- चकहरत्वम् । दीप्तिकारित्वम् । वातघ्नत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अथ मेथी वनमेथी । तयोर्नामगुणाः । “मेथिका मेथिनी मेथी दीपनी बहुपत्रिका । बोधिनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ वल्लरी चन्द्रिका मन्था मिश्रंपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥ मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी । ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथिका¦ स्त्री मेथ--ण्वुल्। (मेथि) शाकभेदे राजनि॰। णिनि मेथिनी। अत्रैव स्त्री ङीप्। अच् गौरा॰ ङीष्। मेथी अत्रैवार्थे राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथिका [mēthikā] मेथिनी [mēthinī], मेथिनी A kind of grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथिका f. See. next.

मेथिका f. Trigonella Foenum Graecum L.

"https://sa.wiktionary.org/w/index.php?title=मेथिका&oldid=367522" इत्यस्माद् प्रतिप्राप्तम्