मेदिनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदिनी, स्त्री, (मेदोऽस्या अस्तीति । मेद + इनिः । ङीष् ।) मेदा । काश्मरी । इति राज- निर्घण्टः ॥ पृथिवी । इत्यमरः । २ । १ । ३ ॥ मेदो विद्यतेऽस्यां मेदिनी सान्तान्मेदःशब्दादिन् सलोपश्च निपात्यते इति परे । स्वमते मेदः समानार्थोऽदन्तो मेदशब्दोऽस्ति । तृष्णाकण्डु- कृमिहरो मलघ्नो मेदकुष्ठहेति शालिहोत्रः । नैकाजादिति इन् । यथा चोक्तम् । “मधुकैटभयोरासीन्मेदसैव परिप्लुता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥” मेद्यतीति वा मेदिनी इन्मिद्या स्निहि ग्रहादि- त्वाण्णिन् । इति तट्टीकायां भरतः ॥ (एतन्नाम- निरुक्तिर्यथा, देवीभागवते । १ । ९ । ८३-८४ । “गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥ मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥” अपि च । तत्रैव । ३ । १३ । ८ । “मधुकैटभयोर्मेदःसंयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) तस्या उत्पत्तिर्यथा, -- “श्रूयतां वसुधाजन्म सर्व्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्द्धनम् ॥ अहो केचिद्बदन्तीति मधुकैटभमेदसा । बभूव वसुधाजन्म तद्विरुद्धमतं शृणु ॥ ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध न यत्रोर्व्वी पाथसा संवृतेति च ॥ तयोर्ज्जीवनकालेन प्रत्यक्षा सा भवेत् स्फुटम् । ततो बभूव मेदश्च मरणस्यान्तरं तयोः । मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ॥ जलधौता कृशा पूर्ब्बं वर्द्धिता मेदसा यतः । कथयामि च तज्जन्म सार्थकं सर्व्वसम्मतम् ॥ पुरा श्रुतं यत् श्रुत्युक्तं धर्म्मवक्त्राच्च पुष्करे । महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ॥ मलो बभूव कालेन सर्व्वाङ्गव्यापको ध्रुवम् । स च प्रविष्टः सर्व्वेषां तल्लोम्नां विवरेषु च ॥ कालेन महता तस्माद्बभूव वसुधा मुने ! । प्रत्येकं प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता ॥ आविर्भूता तिरोभूता सा जले च पुनः पुनः । आविर्भूता सृष्टिकाले तज्जलोपर्य्यवस्थिता । प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥” इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे नारायणनारद- संवादे पृथिव्युपाख्याने ७ अध्यायः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदिनी स्त्री।
भूमिः
समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी
2।1।3।2।7
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।
अवयव : भूरन्ध्रम्,मृद्
: अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदिनी¦ स्त्री मेदः मधुकैटममेदोऽस्त्यस्याः कारणत्वेन इनि।
१ वसुन्धरायाम्
“मधुकैटभयोरासीन्मेदसैव परिप्लुता। तेनेयं मेदिनो देवी प्रोच्यते” इति पुराणम्।
२ मेदायाञ्च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदिनी¦ f. (-नी) The earth. E. मेदस् adeps, इनि and ङीप् affs.; being made, according to the legend, of the adeps of two demons slain by BRAHMA
4.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदिनी [mēdinī], 1 The earth; न मामवति सद्वीपा रत्नसूरपि मेदिनी R.1.65; चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः Ki.13. 52; (मधुकैटभयोरासीन्मेदसैव परिप्लुता । तेनेयं मेदिनीनाम्ना सर्वतः परिकीर्तिता ॥).
Ground, land, soil.
Spot, place.
N. of a lexicon (मेदिनीकोश). -Comp. -ईशः, -पतिः a king. -जः the planet Mars. -दिनम् a natural day.-द्रवः dust. -धरः a mountain.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदिनी f. " having fatness or fertility " , the earth , land , soil , ground TA1r. MBh. etc.
मेदिनी f. a place , spot Hariv.
मेदिनी f. a kind of musical composition Sam2gi1t.
मेदिनी f. Gmelina Arborea L.
मेदिनी f. = मेदाL.
मेदिनी f. N. of a lexicon (also -कोशor मेदिनि-क्).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the earth; deluge foretold by the fish; फलकम्:F1: M. 1. २४-9.फलकम्:/F of seven द्वीपस्; फलकम्:F2: वा. 1. ८९.फलकम्:/F surrounded by seas; filled with मेदस् of Madhu and कैटभ. फलकम्:F3: Ib. ६३. 1 and 2.फलकम्:/F
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
MEDINĪ : A synonym for Earth (Bhūmi). (See under Kaiṭabha for details).
_______________________________
*3rd word in left half of page 500 (+offset) in original book.