सामग्री पर जाएँ

मेरुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेरुः, पुं, (मि + “मिपीभ्यां रुः ।” उणा० ४ । १०१ । इति रुः ।) पर्व्वतविशेषः । तत्पर्य्यायः । सुमेरुः २ हेमाद्रिः ३ रत्नसानुः ४ सुरा- लयः ५ । इत्यमरः ॥ मिनोति क्षिपति ज्योतींषि उच्चत्वात् मेरुः । डुमि ञ्न क्षेपे नाम्नीति रुः । इति भरतः ॥ * ॥ (यथा, मात्स्ये । १२१ । ८ । “देवर्षिगन्धर्व्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः ससौवर्ण उदयो नाम पर्व्वतः ॥”) जपमालाग्रवर्त्तिन्येका माला । यथा, -- “मालामेकैकमादाय सूत्रे सम्पातयेत् सुधीः । मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योजयेत् ॥ गोपुच्छसदृशी कार्य्याथवा सर्पाकृतिर्भवेत् । तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ॥” इत्युत्पत्तितन्त्रे ६० पटलः ॥ * ॥ करमालायां मेरुर्यथा, -- “तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका । पर्व्वद्वयं मध्यमाया मेरुत्वे नोपकल्पयेत् ॥” इदन्तु शक्तिभिन्नविषयम् ॥ * ॥ शक्तिविषये मेरुर्यथा, -- “पर्व्वद्बयमनामायाः परिवर्त्तेन वै क्रमात् । पर्व्वत्रयं मध्यमायास्तर्ज्जन्येकं समाहरेत् । पर्व्वद्वयन्तु तर्ज्जन्या मेरुं तद्विद्धि पार्व्वति ! ॥” श्रीविद्याविषये मेरुर्यथा, -- “अनामामध्यमायाश्च मूलाग्रन्तु द्बयं द्बयम् । कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व्व सुरेश्वरि ! । अनामामध्यमायाश्च मेरुः स्याद्द्वितयं शुभम् ॥” तल्लङ्घितजपे दोषो यथा, -- “अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने । पर्व्वसन्धिषु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् ॥” इति तन्त्रसारः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेरुः [mēruḥ], 1 N. of a fabulous mountain (round which all the planets are said to revolve and which forms the centre of the several Dvīpas; cf. द्वीप; it is also said to consist of gold and gems); विभज्य मेरुर्न यदर्थिसात् कृतः N.1.16; स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते Bh.3.15.

The central bead in a rosary.

The central gem of a necklace. -Comp. -अद्रिकर्णिका the earth. -धामन्m. an epithet of Śiva. -पृष्ठम् heaven, the sky. -मन्दरः N. of a mountain. -यन्त्रम् a figure shaped like a spindle. -सावर्णः N. of one of the fourteen Manus.

"https://sa.wiktionary.org/w/index.php?title=मेरुः&oldid=368233" इत्यस्माद् प्रतिप्राप्तम्