मेषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषी, स्त्री, (मिष्यते गृह्यते असौ इति । मिष + घञ् । ङीष् ।) तिनिशवृक्षः । जटामांसी । इति राजनिर्घण्टः ॥ मेषस्त्रीजातिः । भेडी । (यथा, वाजसनेयसंहितायाम् । ३ । ५९ । “भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजं सुखं मेषाय मेष्यै ॥”) तत्पर्य्यायः । जालकिनी २ अविः ३ । इति त्रिकाण्डशेषः ॥ एडका ४ मेषिका ५ इति शब्दरत्नावली । क्रुररी ६ रुजा ७ अविला ८ वेणी ९ । इति हेमचन्द्रः । ४ । ३४३ । अस्या दुग्धगुणाः । मधुरत्वम् । गाढत्वम् । स्निग्ध- त्वम् । कफापहत्वम् । वातामयकरत्वम् । स्थौल्य- त्वम् । लोमशायाश्चेत् गुरुत्वम् । वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरी- प्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् । गुरुकासेऽनिलोद्भूते केवले वानिले वरम् ॥” इति भावप्रकाशः ॥ अस्या दधिगुणाः । सुस्निग्धत्वम् । कफपित्त- करत्वम् । गुरुत्वम् । वाते रक्तवाते च पथ्य- त्वम् । शोफव्रणनाशित्वञ्च ॥ * ॥ अस्या नव- नीतगुणाः । क्लिष्टगन्धत्वम् । शीतलत्वम् । मेधा- हरत्वम् । पुष्टिदत्वम् । स्थौल्यत्वम् । मन्दाग्नि- दीपनत्वम् । सारकत्वम् । पाके हिमत्वम् । लघुत्वम् । योनिशूले कफे वाते दुर्नाम्नि च हितत्वञ्च । दुर्नाम्नि स्थाने गुदशूले इति पुस्तकान्तरे पाठः ॥ * ॥ तस्या घृतगुणाः । अतीवगौरवात् सुकुमारदेहिनां वर्ज्ज्यत्वम् । बुद्धिपाटवहरत्वम् । बलावहत्वम् । वपुषां विस्र- गन्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तन्- मांसगुणाः । यथा, भावप्रकाशे । “छागमेषवृषाश्वाद्याः ग्राम्याः प्रोक्ता मह- र्षिभिः । ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः । मधुरा रसपाकाभ्यां वृंहणा बलवर्द्धनाः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषी¦ स्त्री मिष--अच् गौ॰ ङीष्।

१ जटामांस्यां

२ तिनिशवृक्षेच राजनि॰। जातौ ङीष्।

३ मेषजातिस्त्रियाम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषी f. (See. मेशी)a ewe RV. VS. Kaus3.

मेषी f. Nardostachys Jatamansi L.

मेषी f. Dalbergia Ougeinensis L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषी स्त्री.
(मेष + ङीष्) भेंड़ी (सरस्वती के लिए बलि-पशु), मा.श्रौ.सू. 7.1.2.2। मेष्कहत (मेष्केण = वन्यपशुना हतः) वन्य-पशु द्वारा मारा गया, आप.श्रौ.सू. 1०.19.1; भा.श्रौ.सू. 1०.12.9।

"https://sa.wiktionary.org/w/index.php?title=मेषी&oldid=479863" इत्यस्माद् प्रतिप्राप्तम्