सामग्री पर जाएँ

मोहरात्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहरात्रिः, स्त्री, (मोहस्य रात्रिः ।) दैनन्दिन- प्रलयः । यथा, -- “एवं पञ्चाशदब्दे च गते तु ब्रह्मणो नृप ! । दैनन्दिनन्तु प्रलयं वेदेषु परिकीर्त्तितम् ॥ मोहरात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः । तत्र सर्व्वे प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः ॥ आदित्या वसवो रुद्रा मन्विन्द्रा मानवादयः । ऋषयो मुनयश्चैव गन्धर्व्वा राक्षसादयः ॥ मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः । इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः । नाडीजङ्घो वकश्चैव सर्व्वे नष्टाश्च तत्र वै ॥ ब्रह्मलोकादधः सर्व्वे लोका नागालयास्तथा । ब्रह्मलोकं ययुः सर्व्वे ब्रह्मलोकादधस्तथा ॥ गते दैनन्दिने ब्रह्मा लोकांश्चं ससृजे पुनः । एवं शताब्दपर्य्यन्तं परमायुश्च ब्रह्मणः ॥ ब्रह्मणश्च निपातेन महाकल्पो भवेन्नृप ! । प्रकीर्त्तिता महारात्रिः सा एव च पुरातनैः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५४ । ७२ -- ७९ ॥ * ॥ मोहः कर्त्तव्याग्रहः स एव रात्रिरिव रात्रि- र्बुद्धिमोहकत्वान्निद्रारूपा । इदानीन्तनजनानां रात्रिरिति वा । इति देवीमाहात्म्यटीकायां विद्याविनोदः ॥ * ॥ जन्माष्टमीरात्रिः । यथा, -- “दीपोत्सवचतुर्द्दश्याममया योग एव चेत् । कालरात्रिर्महेशानि ! ताराकालीप्रियङ्करी । जन्माष्टमी महेशानि ! मोहरात्रिः प्रकीर्त्तिता ॥ तृतीया माधवे शुक्ला कुलवारर्क्षसंयुता । दारुणा कीर्त्तिता देवि ! सर्व्वसिद्धेश्वरी परा ॥” इति शक्तिसङ्गमतन्त्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहरात्रि¦ स्त्री ब्रह्मणो निजपरिमाणेन पञ्चाशदव्दे गतेप्रलयभेदे
“कालरात्रिर्महारात्रिर्मोहरात्रिश्च” चण्डी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहरात्रि/ मोह--रात्रि f. " night of bewilderment " , the -nnight when the world is to be destroyed BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=मोहरात्रि&oldid=503622" इत्यस्माद् प्रतिप्राप्तम्