मौलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलिकः, पुं, (मूले आद्ये जातः । मूल + ठञ् ।) कुलीनभिन्नः । यथा राढीयवारेन्द्रब्राह्मणस्य श्रोत्रियः तथा कायस्थस्य मौलिकः । एवं दाक्षि- णात्यवैदिकब्राह्मणस्य अन्यपूर्ब्बापरिणेतापि तत्- पदवाच्यः । वङ्गजकायस्थस्य स च मध्यन्यशब्द- वाच्यः । यथा । अथ मध्यन्यलक्षणमाह । मध्यन्यशब्दो रूढ इत्यन्यः । डित्थडवित्थवत् । मध्यन्यः कुलमध्यस्थकुलीनस्य विश्रामस्थल- मित्यर्थः । मध्यन्यशब्दस्य लक्षणान्तरम् । कुली- नेतरसिद्धवंशजातकत्वे सति दशपुरुषावधि अनवच्छिन्नकुलार्च्चनत्वं मध्यन्यत्वम् । स च द्विविघः । सिद्धः साध्यश्च । सिद्धत्वं प्रकृत- मध्यन्यत्वम् । प्रकृतसिद्धवंशजातत्वे सति दश- पुरुषावधिकुलार्च्चकत्वं सिद्धत्वम् । सिद्धपदा- काङ्क्षित्वे सति दशपुरुषावधिकुलार्च्चकत्वं साध्य- त्वम् । अस्य प्रशंसामाह । “कुलीनकुलरक्षार्थं विवादेषु मीमांसया । एतेषां गुणमाश्रित्य मध्यन्यः कुलमुत्तमम् ॥” इति कुलदीपिका ॥ * ॥ दक्षिणराढीयकायस्थस्याष्टसन्मौलिका यथा, -- “गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका ये हि सिद्धा- स्ते दत्ताः सेनदासाः करगुहसहिताःपालिताः सिंहदेवाः । ये वा पद्याभिमुख्याः स्थितिविनययुषः सप्ततिस्ते द्विपूर्ब्बा मित्राद्या वीक्ष्य राज्ञा चरणगुणयुता मौलिक- त्वेन साध्याः ॥” अपि च । “सेनो दत्तः करो ज्ञेयो दासो देवः प्रतिष्ठितः । पालितः सिंहधर्म्मज्ञो गुहः सन्मौलिकाः स्मृताः ॥” * ॥ द्बिसप्ततिसाध्यमौलिका यथा, -- “होडः स्वरधरधरणी बाण आयिच सोमः पैसुर सामः । भञ्जो विन्दो गुह बल लोघः शर्म्मा वर्म्मा हुइ भू~यि चन्द्रः ॥ रुद्रो रक्षित राजादित्यो विष्णुर्नागः खिल पिल गूतः । इन्द्रो गुप्तः पालो भद्र ओमश्चाङ्कुर बन्धुर नाथः ॥ शा~यिर्हेशो मानो गण्डो राहा राणा राहुत साना । दाहा दाना गण उपमाना ॥ खामः क्षोमो घर वै ओषः वीदस्तेजश्चार्णव आशः । शक्तिर्भूतो ब्रह्मो शानः क्षेमो हेमो बर्द्धन रङ्गः । गुइः कीर्त्तिर्यशः कुण्डो नन्दी शीलो धनुर्गुणः ॥” इति द्बिसप्ततिमौलिकाः ॥ * ॥ अन्यच्च । “देवो भूदेवभक्तो गुहसदृशगुणो दास ईशान- दासः सेनो दत्तः सुदत्तामहितजनचयः पालितो धर्म्मपालः । सिंहः सिंहप्रतापः क्षितिनिकरकरादानदक्षः करोऽसौ गौडेऽष्टौ संस्थितास्ते गुणगणनिपुणा मौलिक- त्वेन सिद्धाः ॥ * ॥ होडबाणधरणीखिलसोमा भुञ्जबिन्दगुहराजराहुताः । रुद्रपालबलसामरक्षिता लोधशर्म्मभु~यिवर्म्मबन्धराः ॥ चन्द्रशा~यिगुयिभद्रपैसुरा गण्डगुप्तघरकीर्त्तिवर्द्धनाः । क्षेमहेमगणनाथविष्णवो ब्रह्मरङ्गपिलहुइधनुर्गुणाः ॥ तेजोऽर्णवस्वरधरायिच शक्तिभूताः क्षोमौष शान विदशील यशोम नन्दी । दाहाङ्कुरेन्द्रशुभकुण्डमनोपमाना दानाशगूतविदिता भुवि कीर्त्तिमन्तः ॥ हेशादित्यौ राण राहा साना च खामक- स्तथा । द्विसप्ततिमिताः साध्या मौलिका विदिताः क्षितौ ॥” इति कुलाचार्य्यकारिका ॥ * ॥ (देशविशेषः । यथा, मार्कण्डेये । ५७ । ४८ । “पौरिका मौलिकाश्चैव अश्मका भोग- वर्द्धनाः ॥”) त्रि, मूलसम्बन्धिनि मौलसम्बन्धिनि च ॥ (भार- भूतं मूलं हरति वहत्यावहति वा । मूल + “तद्धरति वहत्यावहति भारात् वंशादिभ्यः ।” ५ । १ । ५० । इति ठञ् । मूलभारहारके मूलभार- वाहके मूलभारानेतरि च । इति व्याकरणम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलिक [maulika], a. (-की f.)

Radical.

Chief, principal, prime; संजीवनोपायस्तु मौलिक एव रामभद्रस्याद्य संनिहितः U.3.

Inferior, of low origin (opp. to कुलीन). -कः A dealer in or digger of roots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलिक mfn. (fr. मूल)producing roots etc. g. वंशा-दि

मौलिक mfn. derived from a root , original Sa1m2khyapr. , Introd.

मौलिक mfn. inferior , of low origin ( opp. to कुलीन) Col.

मौलिक m. a digger or vendor of roots VarBr2S.

मौलिक m. pl. N. of a people Ma1rkP.

मौलिक n. = गर्भा-धानL.

"https://sa.wiktionary.org/w/index.php?title=मौलिक&oldid=371606" इत्यस्माद् प्रतिप्राप्तम्