यकृत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत्, क्ली, (यज् + “शकेरृतिन् ।” उणा० ४ । ५८ । इत्यत्र “बाहुलकात् यजेः कश्च ।” इत्युज्ज्वलदत्तोक्त्या ऋतिन् जस्य च कः ।) कुक्षे- र्दक्षिणभागस्थमांसखण्डम् । तत्पर्य्यायः । काल- खण्डम् २ । इत्यमरः । २ । ६ । ६६ ॥ काल- खञ्जम् ३ कालेयम् ४ कालकम् ५ । इति हेमचन्द्रः ॥ करण्डा ६ महास्नायुः ७ । इति रभसः ॥ * ॥ (यथा, ऋग्वेदे । १० । १६३ । ३ । “यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो विवृहामि ते ।” “यक्नः हृदयसमीपे वर्त्तमानः कालमांसविशेषो यकृत् तस्मात् ।” इति तद्भाष्ये सायणः ॥) अथ शरीरावयवविशेषस्य यकृतः स्वरूपमाह । “अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥” अथ यकृद्रोगमाह । “प्लीहामयस्य हेत्वादि समस्तं यकृदामये । किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः ॥” अथ यकृद्रोगचिकित्सा । “प्लीहोद्दिष्टाः क्रियाः सर्व्वा यकृत्यपि समा- चरेत् । कार्य्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् ॥ क्षारञ्च विडकृष्णाभ्यां पूतिकस्याम्बु निस्रुतम् । पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये ॥” इति भावप्रकाशः ॥ (तथा च । “वातेनोदीरितं रक्तं कफेन च घनीकृतम् । पित्तेन पाकतां प्राप्तं त्रिदोषसंश्रितं यकृत् ॥ लक्षणं तस्य वक्ष्यामि तेन तच्चापि लक्षयेत् । क्षीयते तेन मनुजो मृत्युराशु प्रवर्त्तते ॥ वमिक्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः । दाहोऽरुचिस्तृषामूर्च्छा कण्ठे दाहः शिरो- व्यथा ॥ हृच्छूलञ्च प्रतिश्यायः ष्ठीवनं कटुकासह । सशल्यं हृदि शूलञ्च निद्रानाशः प्रलापतः ॥ हृदये मन्यते जाड्यं उदरं गर्ज्जते भृशम् । एतैर्लिङ्गैर्विजानीयात् यकृत् कोष्ठे च वक्षसि ॥” अथास्य चिकित्सा । “निम्बनीपधवचेतसं निशा काश्मरी च तुलसी च सिंहिका । क्वाथ एव हृदयामयापह आशु शूलयकृतश्च नाशकृत् ॥ सौराष्ट्रीकासीसमहौषधानि दुरालभाजातिप्रबालकञ्च । दार्व्वी यमानी ककुभः समङ्गा क्वाथः ससर्पिर्यकृदाशु हन्ति ॥” इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥ “प्लीहवद्दक्षिणात् पार्श्वात् कुर्य्याद्यकृदपि च्युतम् ॥” इति वाभटे निदानस्थाने द्वादशेऽध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत् नपुं।
कुक्षेर्दक्षिणभागस्थमांसखण्डः
समानार्थक:कालखण्ड,यकृत्
2।6।66।2।3
अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत्¦ न॰ यं संयमं करोति कृ--क्विप् तुक् च।
१ कुक्षौ दक्षिण-भागस्थे मांसपिण्डे अमरः।
२ तद्वर्द्धके रोगभेदे च
“अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः। तत्तुरञ्जकपित्तस्य स्थानं शोणितजं मतम्” भावप्र॰। तद्रोगनिदानादि तत्रोक्तं यथा
“प्लीहामयस्य हेत्वादिसमस्तं यकृदामये। किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिण-पार्श्वयोः”। अस्य शमादौ भत्वे च यकन्नादेशः। [Page4768-a+ 38]
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत्¦ m. (-कृत्) The liver. E. य union, (of the parts of the body,) कृ to make, aff. क्विप् and तुक् augment. यकन् is optionally substituted for this word in some of the declensions.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत् [yakṛt], n. [यं संयमं करोति कृ क्विप् तुक् च Tv.] The liver or any affection of it; सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वताः Bṛi. Up.1.1.1; Mv.3.32. -Comp. -आत्मिका a kind of cockroach. -उदरम् enlargement of the live. -कोषः the membrane enveloping the liver. -वैरिन् m. N. of a plant (Mar. रक्तरोहिडा).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत् n. (the weak cases are optionally formed fr. a base यकन्cf. Pa1n2. 6-1 , 63 ; nom. acc. यकृत्AV. ; abl. यक्नस्RV. ; यकृतस्Sus3r. ; instr. यक्नाVS. ; loc. यकृतिSus3r. ; ibc. only यकृत्)the liver RV. etc. etc. [ cf. Gk. ? ; Lat. jecur.]
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यकृत् न.
(वध्य-पशु का) जिगर, ‘कालवर्णो मांसः क्लोमाप्लीहे दक्षिणपार्श्वे स्थितं स्वादुमासम् इति------यकृत्सदृशं निलकाख्यं मांसम्। प्लीहागुल्म इति रुद्रदत्तः’ आप.श्रौ.सू. 7.22.5; भा.श्रौ.सू. 7.18.12। यजति