यक्ष्मा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यक्ष्मा, [न्] पुं, (यक्ष + “बाहुलकात् यक्षयते- रपि ।” उणा० ४ । १५० । इत्यत्र उज्ज्वलदत्तोक्त्या मनिन्प्रत्ययेन साधुः ।) रोगविशेषः । तत्पर्य्यायः । क्षयः २ शोषः ३ । इत्यमरः । २ । ६ । ५१ ॥ राजयक्ष्मा ४ रोगराट् ५ ॥ अथ राजयक्ष्माधि- कारः । “तत्र राजयक्ष्मणो विप्रकृष्टं सन्निकृष्टञ्च निदानमाह । ‘वेगरोधात् क्षयाच्चैव साहसाद्बिषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥’ वेगोऽत्र वातमूत्रपुरीषाणाम् । ‘वातमूत्रपुरीषाणि निगृह्णाति यदा नरः ॥’ इति चरकवचनात् ॥ क्षथात् क्षीयतेऽनेनेति क्षयः तेनातिव्यवाया- नशनेर्ष्यादयो धातुक्षयहेतवः क्षयशब्देनोच्यन्ते । साहसात् बलवता समं मल्लयुद्धादितः । विषमा- शनात् बहु स्तोकमकाले वा भुक्तं तत् विषमा- शनम् । तस्मात् । त्रिदोषः सान्निपातिकः । हेतुचतुष्टयात् अन्येऽपि हेतवः हेतुचतुष्टय एवान्तर्भवन्ति । यक्ष्मणः पर्य्यायाः राजयक्ष्म- क्षयशोषाः ॥ * ॥ यक्ष्मादीनां शब्दानां निरुक्ति- माह । ‘वैद्यो व्याधिमतां यस्मात् व्याधेर्यत्नेन यक्ष्यते । स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः ॥’ यक्ष्यते पूज्यते । ‘राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः । तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः ॥ क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः । संशोषणाद्रसादीनां शोष इत्यभिधीयते ॥’ * ॥ संप्राप्तिमाह । ‘कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु । अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरा । क्षीयन्ते धातवः सर्व्वे ततः शुष्यति मानवः ॥’ कफप्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेषु अनन्तरा सर्व्वे धातवः क्षीयन्ते ततो मानवः शुष्यति । ऊर्द्ध्वं तिर्य्यगधः कुर्य्याद्विकारान् कुपितोऽनिलः ॥ प्रतिश्यायञ्च कासञ्च स्वरभेदमरोचकम् । पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्द्दनम् ॥ अङ्गिमर्द्दं मुहुश्छर्द्दिर्वर्च्चोभेदं त्रिलक्षणम् । रूपाण्येकादशैतानि यक्षा यैरुच्यते महान् ॥” इति चरके चिकित्सास्थाने अष्टमेऽध्याये ॥ अस्य चिकित्सा यथा, -- “काञ्चनं रससिन्दूरं मौक्तिकं लौहमभ्र- कम् । विद्रुमं मृतवैक्रान्तं तारं ताम्रञ्च वङ्गकम् ॥ कस्तूरिका लवङ्गञ्च जातिकोषैलवालुका । प्रत्येकं बिन्दुमात्रञ्च सर्व्वं मर्द्द्यं प्रयत्नतः । कन्यानीरेण संमर्द्द्यं केशराजरसेन च । अजाक्षीरेण संभाव्यं प्रत्येकं दिवसत्रयम् ॥ चतुर्गुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् । अनुपानं प्रदातव्यं यथादोषानुसारतः ॥ नानारोगप्रशमनं सर्व्वोपद्रवसंयुतम् । क्षयं हन्ति तथा कासं यक्ष्माणं श्वासमेव च ॥ प्रमेहान् विंशतिञ्चैव दोषत्रयसमुत्थितान् । सर्व्वान् रोगान् निहन्त्याशु भास्करस्तिमिरं यथा ॥” इति बृहत्काञ्चनाभ्रवटी ॥ “शिलाजतुमधुव्योषताप्यलौहरजांसि च । क्षीरेणालोडितस्यासु यक्ष्मा क्षयमवाप्नुयात् ॥” इति शिलाजत्वादिलौहम् ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे राजयक्ष्माधि- कारे ॥ * ॥)
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
YAKṢMĀ (RĀJAYAKṢMĀ) : The disease of consump- tion (Tuberculosis). There is a story in Mahābhārata which says that this disease was created by Dakṣa Prajā- pati. (For more details see under Candra).
_______________________________
*7th word in left half of page 893 (+offset) in original book.