सामग्री पर जाएँ

यजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यजनम्, क्ली, (इज्यते इति । यज् + ल्युट् ।) यागः । (यथा, महाभारते । ७ । ५३ । ३७ । “यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः । देवा विश्वसृजः सर्व्वे यजनान्ते समासते ॥”) तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः । यथा, मानवे १ अध्याये । “अध्यापनं अध्ययनं यजनं याजनं यथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥” अस्य लक्षणं यथा । पशुक्षीराज्यपुरोडास- सोमौषधिचरुप्रभृतिभिहविर्भिः खदिरपलाशा- श्वत्थन्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवो- दूखलमुषलकुठारखनित्रयूपदारुदर्भचर्म्मग्राव- पवित्रभाजनादिभिर्द्रव्योपकरणैरुद्गातृहोत्रध्वर्य्यु- ब्रह्मादिभिरृत्विग्भिः काम्यनैमित्तिकानां पक्षादिपूर्ब्बकाणां यथोक्तदक्षिणानां समापनं यजनम् । इति श्राद्धविवेकधृतदेवलवचनम् ॥ (इज्यतेऽत्रेति । यज् + अधिकरणे ल्युट् । यज्ञ- स्थानम् । यथा, श्रीमद्भागवते । ४ । ४ । ६ । “नृद्दार्व्वयःकाञ्चनदर्भचर्म्मभि- र्निसृष्टभाण्डं यजनं समाविशत् ॥” “यजनं यज्ञस्थानम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यजन¦ न॰ यज--ल्युट् होत्रादिना पशुक्षीराज्यादिभिः मन्त्र-पूर्वकं वह्णौ प्रक्षेपरूपे यागे। यजनञ्च श्रा॰ वि॰ देवलोक्तं यथा
“पशुक्षीराज्यपुरो-डाशसोमौषधिचरुप्रभृतिर्हविर्भिः खदिरपलाशाश्वत्थ-न्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखल-मूषलकुठारखनित्रयूपदारुदर्भचर्मग्रावपवित्रभाजनादिभि-र्द्रव्योपकरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिः ऋत्विग्भिःकाम्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानांसमापनं यजनम्”। ल्यु। उत्तरपदस्थः समभिव्या-हृतदेवादेर्यष्टरि त्रि॰ आधारे ल्युट्।

३ यागाधिकरणे न॰। यथा देवयजनम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यजन¦ n. (-नं) Offering sacrifices, performing worship. E. यज् to worship, ल्युट् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यजनम् [yajanam], [यज्-ल्युट्]

The act of sacrificing.

A sacrifice; देवयजनसंभवे देवि सीते U.4.

A place of sacrifice; उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता ।.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यजन n. the act of sacrificing or worshipping Mn. MBh. etc. ( तव यजनाय, to worship thee BhP. )

यजन n. a place of sacrifice R. BhP.

यजन n. N. of a तीर्थMBh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Yajana  : nt.: Name of a tīrtha.

Situated in the wide region Devikā along the river of the same name; if one bathes at Yajana one does not grieve over death (upaspṛśya na śocen maraṇaṁ tataḥ) 3. 80. 114-115. [See Devikā ]

_______________________________
*3rd word in right half of page p427_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=यजन&oldid=446266" इत्यस्माद् प्रतिप्राप्तम्