यजनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजनम्, क्ली, (इज्यते इति । यज् + ल्युट् ।) यागः । (यथा, महाभारते । ७ । ५३ । ३७ । “यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः । देवा विश्वसृजः सर्व्वे यजनान्ते समासते ॥”) तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः । यथा, मानवे १ अध्याये । “अध्यापनं अध्ययनं यजनं याजनं यथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥” अस्य लक्षणं यथा । पशुक्षीराज्यपुरोडास- सोमौषधिचरुप्रभृतिभिहविर्भिः खदिरपलाशा- श्वत्थन्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवो- दूखलमुषलकुठारखनित्रयूपदारुदर्भचर्म्मग्राव- पवित्रभाजनादिभिर्द्रव्योपकरणैरुद्गातृहोत्रध्वर्य्यु- ब्रह्मादिभिरृत्विग्भिः काम्यनैमित्तिकानां पक्षादिपूर्ब्बकाणां यथोक्तदक्षिणानां समापनं यजनम् । इति श्राद्धविवेकधृतदेवलवचनम् ॥ (इज्यतेऽत्रेति । यज् + अधिकरणे ल्युट् । यज्ञ- स्थानम् । यथा, श्रीमद्भागवते । ४ । ४ । ६ । “नृद्दार्व्वयःकाञ्चनदर्भचर्म्मभि- र्निसृष्टभाण्डं यजनं समाविशत् ॥” “यजनं यज्ञस्थानम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजनम् [yajanam], [यज्-ल्युट्]

The act of sacrificing.

A sacrifice; देवयजनसंभवे देवि सीते U.4.

A place of sacrifice; उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता ।.

"https://sa.wiktionary.org/w/index.php?title=यजनम्&oldid=372922" इत्यस्माद् प्रतिप्राप्तम्