यजमानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमानः, पुं, (यजतीति । यज् + शनच् ।) अध्वरे आदेष्टा । तत्पर्य्यायः । व्रती २ यष्टा ३ । इत्य- मरः । २ । ७ । ८ ॥ (यथा, श्रीमद्भागवते । ३ । १६ । ८ । “नाहं तथाद्मि यजमानहविर्विताने श्चोतद्घृतप्लुतमदन् हुतभुङ्मुखेन ॥”) “व्रत्यादित्रयं यजमाने । अध्वरे यागविषये मम इष्टसम्पादनाय यथार्थं कर्म्म कुरु इति ऋत्वि- जामादेशको यागस्वामी व्रत्यादिशब्दत्रयवाच्य इत्यर्थः । व्रतमणाजिनादिधारणं विद्यतेऽस्य व्रती इन् । यजते इति तृनि यष्टा । शाने यजमानः । स व्रती सोमपानवति अध्वरे यज- मानः सन् दीक्षित उच्यते अन्यत्राप्युपचारात् । दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु क्तः दीक्षा- शब्दादितो वा ।” इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=यजमानः&oldid=159439" इत्यस्माद् प्रतिप्राप्तम्