यज्ञवराह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञवराह¦ पु॰ यज्ञरूपो वराहः। आदिवराहे भगवदव-तारभेदे। क्रतुपुरुषशब्दे

२२

८४ पृ॰ दृश्यम्। वराहदे-हस्य शिवेन विदारणेन यज्ञभेदरूपत्वं सम्पादितं यथोक्तंकालिकापु॰

३० अ॰
“विदारिते वराहस्य काये भर्गेणतत्क्षणात्। ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैःसह। निन्युर्जलात् समुद्धृत्य तत् शरीरं नभः प्रति। तद्विभेजुः शरीरन्तु विष्णोश्चक्रेण खण्डशः। तस्याङ्गसन्धितो यज्ञाजातास्ते वै पृथक् पृथक्। यस्माद् यस्माच्चये यज्ञास्तत् शृण्वन्तु महर्षयः। भ्रूनासासन्धिनाजातो ज्योतिष्टोमो महाध्वरः। हनुश्रवणसन्ध्योस्तुवह्निष्टोमो व्यजायत। चक्षुर्भ्रुवोः सन्धिना तु व्रात्य-स्तोमो व्यजायत। आयुः पौगर्भवस्तोमस्तस्य पोत्रोष्ठसन्धिना। वृद्धस्तोम वृहत्स्तोमौ जिह्वामूलाद्व्यजायत। अतिरात्रं सवैराजमधोजिह्वान्तरादभूत्। अध्यापनंब्रह्मयज्ञः पिद्वयज्ञस्तु तर्पणम्। होमो दैवो वलिभौतोनृयज्ञोऽतिधिपजतम्। स्नानं तर्पणपर्व्यन्तं नित्य-यज्ञाश्च सांशः। कण्ठसन्धेः समुत्पन्ना, जिह्वातोविधयस्तथा यवाजिमेधो महामेधो नरमेधस्तथैव च। प्राणिहिंसाकरा{??} ते क्षाताः पादसन्धितः। [Page4769-b+ 38] राजसूयोऽथ कारीरी वाजपेयस्तथैवच। पृष्ठसन्धौसमुत्पन्ना ग्रहयज्ञास्तथैव च। प्रतिष्ठोत्सर्गयज्ञाश्चदानश्राद्धादयस्तथा। हृत्सन्धितः समुत्पन्ना सावित्री-यज्ञ एव च। सर्वेषां साधका यज्ञाः प्रायश्चित्तकराश्चये। ते मेढृसन्धितो जाता यज्ञास्तस्य महात्मनः। रक्षःसत्रं सर्पसत्रं सर्वञ्चैवाभिचारिकम्। गोमेधोवृक्षजापश्च खुरेभ्यो ह्यभवन्निमे। मायेष्टिः परमेष्टिश्चगोष्पतिर्भोगसम्भवः। लाङ्गूलसन्धौ संजाता अग्निष्टोमस्तथैवच। नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकी-र्त्तिताः। लाङ्गूलसन्धौ ते जातास्तथा द्वादशवार्षिकम्। तीर्थप्रयोगसामौथः यजुः सङ्कर्षणस्तथा। आर्कमाथर्वण-श्चैव नाभिसन्धेः समुद्गताः। सत्रोत्कर्षः क्षेत्रयज्ञःपञ्चमार्गोऽतियोजनः। लिङ्गसंस्थानहैरम्बयज्ञा जाताश्चजानुनि। एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः!। यज्ञानां सततं लोकायैर्भाव्यन्तेऽधुनापि च। स्रुशस्यपोत्रात् संजाता नासिकायाः स्रुवोऽभवत्। अन्येस्रुक्स्रुवमेदा ये ते जाताः पोत्रनासयोः। ग्रीवा-भागेन तस्याभूत प्राग्वंशो मुनिसत्तमाः!। इष्टा-पूर्त्तं यजुर्धर्मा जाताः श्रवणरन्ध्रतः। दंष्ट्राभ्योह्यभवन्यूपाः कुशा रोमाणि चाभवन्। उद्गाता च तथा-ध्वर्य्युर्होता समिध एव च। अग्रदक्षिणवामाङ्गपश्चात्पादेषु सङ्गताः। पुरोडाशाः सचरवो जातामस्तिष्कसञ्चयात्। कर्षूर्नेत्रयुगाज्जाता यज्ञकेतु-स्तथा खुरात्। मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजा-यत। रेतोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः। यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च। तदात्मायज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः। एवं यावन्तियज्ञानां भाण्डानि च हवींषि च। तानि यज्ञवराहस्यशरीरादेव चाभवन्। एवं यज्ञवराहस्य शरीरं यज्ञता-मगात्। यज्ञरूपेण सकलमाप्यायितुमिदं जगत्। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञवराह¦ m. (-हः) VISHN4U in his boar-incarnation. E. यज्ञ, and वराह the boar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञवराह/ यज्ञ--वराह m. विष्णुin the boar-incarnation W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अवतार् in गोमती तीर्थ; फलकम्:F1: M. २२. १३; २४८. ७७.फलकम्:/F वाराहम् रूपम्; the boar described; the Vedas are the feet, upa, teeth; यज्ञ, breast; citi, mouth; fire, tongue; कुश grass, hair; ब्रह्मा, head; day and night, eyes; Vedangas and श्रुतिस्, jewels; ghee, nose; sruva, face; सामघोष, the speech, embodiment of satya and dharma, ऊर्ध्वगात्र, nerves; homa, linga; the residence, ocean; Vedi, the inner body; mantras, the hinder part, soma, blood; Veda, skandha; havi, the smell and pride; havya-kavya fast running; प्राग्वम्श pra1yas4citta, the terrible chariot; the body, दक्स्हिण heart; उपाकर्मेष्ठि, the pleasant form, pravargya materials, orna- ments; different metres footpath, उपनिषद् the seat; छाया wife and tall as मणिसृङ्ग. फलकम्:F2: वा. 6. ११-23.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=यज्ञवराह&oldid=435711" इत्यस्माद् प्रतिप्राप्तम्