यतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतः, व्य, (यद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । “तद्धितश्चासर्व्वविभक्तिः ।” १ । १ । ३८ । इति तसिल्प्रत्ययान्तस्याव्ययत्वम् ।) हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा, मनुः । २ । ११७ । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । अददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥” यद् + “इतराभ्योऽपि दृश्यन्ते ।” ५ । ३ । १४ । इति तसिल्प्रत्ययेन । येन । यथा, भागवते । २ । ५ । २ । “यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ! ॥” येभ्यः । यथा, भागवते । १ । १५ । २१ । “तद्वै धनुस्त इषवः सरथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति ॥” यत्र । यथा, अभिज्ञानशकुन्तले । “यतो यतः षट्चरणोऽभिवर्त्तते ततस्ततः प्रेरितवामलोचना ॥”)

"https://sa.wiktionary.org/w/index.php?title=यतः&oldid=159510" इत्यस्माद् प्रतिप्राप्तम्