यन्त्र

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रम्, क्ली, (यच्छत्यत्रेति । यम + “गुधृवीपचिवचि- यमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ । १६६ । इति त्रः ।) देवाद्यधिष्ठानम् ॥ (यथा, देवी- भागवते । ३ । २६ । २१ । “अर्च्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् । स्थापयेत् पीठपूजार्थं कलसं तत्र पार्श्वतः ॥”) पात्रभेदः । नियन्त्रणम् । इति हेमचन्द्रः ॥ अग्नियन्त्रम् । इति महाभारतटीकायां नील- कण्ठः ॥ कामान् वन्दूक इत्यादि भाषा ॥ * ॥ वाद्यम् । यथा, -- “यन्त्रस्य गुणदोषौ न विचार्य्यौ मधुसूदन ! । अहं यन्त्रं भवान् यन्त्री न मे दोषा न मे गुणाः ॥” इति महाभारतम् ॥ दारुयन्त्रादि । कल इति भाषा । यथा, -- “ईश्वरः सर्व्वभूतानां हृद्देशेऽर्ज्जुन ! तिष्ठति । दीप्तोपलैः मंवृणुयाद्यन्त्रं भूधरनामकम् ॥” इति भूधरयन्त्रम् ॥ “यन्त्रं डमरुसंज्ञं स्यात्तत् स्थाल्योर्मुद्रिते मुखे ॥” इति डमरुयन्त्रम् । इति भावप्रकाशः ॥ (तथाच । “अन्धमूषा तु कर्त्तव्या गोस्तनाकारसन्निभा । सैव छिद्रान्विता मध्ये गम्भीरामारणोचिता ॥” इति अन्धमूषायन्त्रम् ॥ “द्बौ भागौ तु सदुग्धस्य एकावल्मीकमृत्तिका । लोहकिट्टस्य भागैकं श्वेतपाषाणभागिकम् ॥ नरकेशसमं किञ्चित् छागीदुग्धेन पेषयेत् । माषद्बयं दृढं मर्द्द्यं तेन मूषां सुसम्पुटाम् ॥ शोषयित्वा रसं क्षिप्त्वा तत्कल्कैः सन्धि लेपयेत् । रौद्रमूषा समाख्याता सम्यक्पारदसाधिका ॥” इति मूषायन्त्रम् ॥ * ॥ “बालुकापूरितं भाण्डं तन्मध्ये सूतकं क्षिपेत् । रसं मूषागतञ्चैव भाण्डं स्रावेण रोधयेत् ॥ लिप्त्वा मृल्लवणैः सन्धिं पाचयेच्चुल्विकाग्निना । बालुकायन्त्रमेतद्धि योजयेद्रसकर्म्मणि ॥” इति बालुकायन्त्रम् ॥ “तिर्य्यक्कण्ठं काचकुप्या गिलयेत् स्वल्पभाण्डकैः । तिर्य्यक्कृत्वा पचेत् भाण्डं वकयन्त्रमिति स्मृतम् ॥” इति वकयन्त्रम् ॥ “ऊर्द्ध्वाधः संपुटाकारं तन्मध्ये रससंस्थितम् । कवचीयन्त्रमेतद्धि रसादिद्रव्यसाधनम् ॥” इति कवचीयन्त्रम् ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणाद्यधिकारे ॥ चिकित्सोपयग्यपरयन्त्रविवृतिर्यथा, --

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्र¦ न॰ यत्रि--अच्।

१ संयमने तन्त्रोक्ते देवाद्यधिष्ठाने

२ चक्रभेदे

३ औषधपाकार्थपात्रभेदे, ज्योतिश्चक्राद्यवेक्षण-साधने

४ पदार्थभेदे,

५ सूत्रथारादेर्दारुवेधकादौ (तुरविन्)(भमर) पदार्थे।

६ अग्न्यादेः क्षपणसाधने पदार्थे अग्नि-यन्त्रम् (कामान धनुक)। [Page4772-a+ 38] औषधपाकपात्रं च नानाविर्ध भावप्र॰ दर्शितं यथावालुकायन्त्रम्
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके। कूपिकाकण्टपर्य्यन्तं वालुकाभिश्च पूरिते। भेषजं कूपि-कासंस्थं वह्निना यत्र पच्यते। वालुकायन्त्रमेतद्वि यन्त्र-तन्त्रवुधैः स्मृतम्”। दोलायन्त्रम्
“निघद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे। रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि। सन्धान-पूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम्। अधस्ताज्ज्वा-लयेदग्निं तत्तदुक्तक्रमेण हि। दोलायन्त्रमिदं प्रोक्तंस्वेदनाख्यं तदेव हि”। सन्धानं काञ्जिकादि। विद्याधरयन्त्रम्
“साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधायच। पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं परम्। अधःस्थाल्यां रसं क्षिप्त्वा संनिदध्यान्मुखोपरि। स्थाली-मूर्द्धमुखीं सम्यक् निरुध्य मृदुमृत्सया। ऊर्द्धस्थाल्यांजलं क्षित्वा चुल्ल्यामारोप्य यत्नतः। अधस्तात् ज्वालये-दग्निं यावत् प्रहरपञ्चकम्। स्वाङ्गशीतं ततो यन्त्रात्गृह्णीयाद्रसमुत्तमम्। विद्याधराभिधं यन्त्रमेतत्तज्ज्ञै-रुदाहृतम्”। भूधरयन्त्रम्
“वालुकासु समस्ताङ्गं गर्त्ते मूषाः रसान्विताः। दीप्तोपलैः संवृणुयाद्यन्त्रं भूधरनामकम्”। डमरुयन्त्रम
“यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्योर्मुद्रिते मुखे” कालज्ञानार्थे सू॰ सि॰ उक्ते

६ पदार्थभेदे यथोक्तं
“कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्। एकाकीयोजयेद्बीजं यन्त्रे विस्मयकारिणि। शङ्कुयष्टिधनुश्चक्रै-श्छायायन्त्रैरनेकधा। गुरूपदेशाद्विज्ञेयं कालज्ञानमत-न्द्रितैः” मू॰।
“शङ्कुयष्टिधनुश्चक्रैः प्रसिद्धैश्छायायन्त्रैश्छा-यासाधकयन्त्रैरनेकधा नानाविधगणितप्रकारैर्गुरूपदेशात्स्वाध्यापकस्य निर्व्याजकथनादतन्द्रितैरभ्रमैः पुरुषैः काल-ज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वेनावगम्यम्। एतत् सर्वं सिद्धान्तशिरोमणौ भास्कराचार्थैः स्पष्टीकृतम्शङ्कुयन्त्रत्
“समतलमस्तकपरिधिर्भ्रमसिद्ध्यै दन्तिदन्तजः शङ्कुः। तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम्”। यष्टियन्त्रम्
“त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र। दत्त्वाऽग्रां प्राक्पश्चात् द्विज्यावृत्तं च तन्मध्ये। तत्-परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे। त्रिज्याङ्गुलानिधेया यष्ट्याग्राग्रान्तरं यावत्। यावत्या मौर्व्यायद्द्वितीयवृत्ते धनुर्भवेत् तत्र। दिनगतशेषा नाड्यः प्राक्पश्चात् स्युः क्रमेणैवम्”। [Page4772-b+ 38] चक्रयन्त्रम्
“चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिका-धारम्। धात्री आधारात् कल्प्या भार्धेऽत्र खार्धं च। तन्मध्ये सूक्ष्माक्षं क्षित्वार्काभिमुखनेमिकं धार्यम्। भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः। तत्खार्धान्तश्चनता उन्नत{??}वसङ्गुणं द्युदलम्। द्युदलौन्नतांशभक्तंनाड्यः स्थूलाः परैः प्रोक्ताः”। धनुर्यन्त्रम्
“दलीकृतं चक्रमुशन्ति चापम्” इति। अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणितादि-विचारश्चोपेक्षित इति मन्तव्यम्। अथ घटीयन्त्रादिभि-श्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साथयेदितिकालसाधनमुपसंहरति” रङ्ग॰।
“तोययन्त्रकपालाद्यै-र्मयूरनरवानरैः। ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसा-धयेत्” मू॰।
“तोययन्त्रं च तत् कपालं च कपालाख्यंजलयन्त्रं वक्ष्यसाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालु-कायन्त्रप्रभृतिभिः सापेक्षवटीयन्त्रैर्मयूरनरवानरै। मय्-राख्यं खयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यंछायायन्त्रं पूर्वोद्दिष्टं वानरयन्त्रं स्वयंवहं निरपेक्षमेतैःससूत्ररेणुगर्भैः सूत्रसहिता रेखवो घूलयो गर्भे मध्येयेषां तैः सूत्रप्रोताः षष्टिसङ्ख्याका मृद्घटिका मयूरो-दरस्था मुखाद् घटिकान्तरेण स्वत एव निःसरन्तीतिलोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः। यद्वा सूत्राकारेणरेणवः सिकतांशा गर्भे उदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम्। तेन सहितैर्मयूरादियन्त्रैर्मथूराद्युक्त-यन्त्रैर्वालुकायन्त्रेण चेति सिद्धोऽर्थः। चकारस्तोययन्त्र-कपालाद्यैरित्यनेन समुच्चयार्थकः। कालं दिनगतादिरूपंसम्यक् सूक्ष्मं प्रसाधयेत्। प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्म-त्वेनेत्यर्थः। जानीयादित्यर्थः। ननु मयूरादिस्वयं-वहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारा बहवोदुर्नमाश्च सन्तीत्याह रङ्ग॰।
“शारदाराम्बुसूत्राणि शुल्वतैलक्षनि च। बीजानिपांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः” भू॰।
“तेषु मयूरादिय-न्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः। प्रक-र्षस्तु यावदभिमतसिद्धेः। ते के इत्यत आह। पारदारा-म्बुसूत्राणीति। पारदयुक्ता आराः। तथाच सिद्धान्त-शिरोमणौ
“लघुकाष्ठजसमचक्रे समसुषिराराः समा-न्तरा नेम्याम्। किञ्चिद्वक्रा योज्याः सुषिरस्यार्धे पृथक्तासाम्। रसपूर्णे तच्चक्रं ह्माधाराक्षस्थितं स्वयं भ्रमति”। अम्बु जलस्य प्रथोगः। सूत्राणि सूत्रचासाधनप्रयोगः। [Page4773-a+ 38] शुल्बं शिल्पनैपुण्यम्। तैलजलानि तैलयुक्तजलस्यप्रयोगः। चकारात् तयोः पृथक् प्रयोगोऽपि। तथाचसिद्धान्तशिरोमणौ
“उत्कीर्यनेमिमथ वा परितोयदनेन संलग्नम्। तदुपरि तालदलाद्यं कृत्वा सुषिरेरसं क्षिपेत् तावत्। यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतोयाति। पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जला-कृष्टम्। ताम्रादिमलस्याङ्कुशरूपनलस्याम्बुपूर्णस्य। एकंकुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहिः। युगप-ग्मुक्तं चेत् कं नलेन कुण्डाद्वहिः पतति। नेम्यां बद्ध्वाषटिकाश्चक्रं जलयन्त्रवत् तथा धार्यम्। नलकप्रच्युत-सलिलं पतितं यथा तद्वटीमध्ये भ्रमति। ततस्तत् सततंपूर्णघटीभिः समाकृष्टम्। चक्रच्युतं स्वयमुदकं कुण्डेयाति प्रणालिलया”। इति। बीजानि केवलं तुङ्गबीजप्रयोगः। पांसवो धूलिप्रयोगास्तैर्युक्ताः प्रयोगाः। अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः। दुर्लभाः असा-धारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः। अन्यथाप्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः। इयं स्वयंवह-विद्या समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यग-भ्यस्तेति। कुहकविद्यात्वादत्र विस्तारानुद्योग इतिसंक्षेपः” रङ्ग॰। अथ कपालाख्यं जलयन्त्रम्
“ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि। षष्टिर्मज्ज-त्यहोरात्रे स्फुटं यन्त्रं कपालकम्” मू॰
“यत् ताम्रघटितंपात्रमधश्छिद्रमधोभागे छिद्रं यस्य तत्। अमलाम्भसिनिर्मलं जलं विद्यते यस्मिन् तादृशे कुण्डे वृहद्भाण्डेन्यस्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टि-वारमेव न न्यूनाधिकं मज्जति। अधश्छिद्रमार्गेणजलागमनेन जलपूर्णतया निमग्नं भवति। तत् कपालकंघटखण्डानां कपालपडवाच्यत्वात् घटाधस्तनार्धाकारंयन्त्रं षटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु
“शुल्बस्यदिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम्। तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटीस्यात्। सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाकाचतुरङ्गुला स्यात्। विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यतेनाडिकथाम्बुभिस्तत्” मू॰। इति व्यक्तम्। भगवता तुसूक्ष्ममुक्तम्। अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह रङ्ग॰।
“नरयन्त्रं तथा साधु दिवा च विमलेरकौ। छावासंसाधनैः प्रोक्तं काससावनसुत्तमम्” मू॰। [Page4773-b+ 38] देवताभेदे पूजाधारयन्त्राणि धारणयन्त्राणि च तन्त्रसा-रोक्तानि दृश्यानि। तल्लेखनद्रव्याणि तत्रोक्तानि यथा
“काश्मीररोचनालाक्षामृगेभमदचन्दनैः। बिलिखे-द्धेमलेखन्या यन्त्राण्येतानि देशिकः। सौवर्णे राजतेपत्रे भूर्जे वा सम्यगालिखेत्। अथ वा ताम्रपत्रे वागुटिकीकृत्य धारथेत्। यावज्जीवं सुवर्णे स्यात् रौप्येविंशतिवार्षिकम्। भूर्जे द्वादशवर्षाणि तदर्द्धं ताम्र-पट्टके”। द्रव्यभेदस्पर्शे तत्र तस्याधार्य्यतोक्ता यथा
“भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्माल्यसङ्गतम्। वि-दीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत्”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्र¦ n. (-न्त्रं)
1. A machine in general, any implement or apparatus.
2. A diagram of a mystical nature, or astrological character.
3. A [Page584-b+ 60] sort of vessel.
4. Restraining, checking, controlling.
5. A fetter, a cord.
6. A lock, a bolt. E. यम् to check, Una4di aff. त्र; or यत्रि-अच् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रम् [yantram], [यन्त्र्-अच्]

That which restrains or fastens, any prop or support, a stay; as in गृहयन्त्र (see the quotation under this word.).

A fetter, band, fastening, tie, thong, rein; छेदने चैव यन्त्राणाम् Ms.8.292.

A surgical instrument, especially a blunt instrument (opp. शस्त्र).

Any instrument or machine, an appliance, a contrivance, implement in general; कूपयन्त्र Mk.1.6 'a machine for drawing up water from a well'; so तैल˚ (cf. यन्त्रं तिलपीडनकम् Chandu Paṇdita on N.1.6;22.87); जल˚ &c.

A bolt, lock, key; यन्त्रैरुद्घाटयामास सो$पश्यत् तत्र बालकम् Mb.3.39.6.

Restraint, force.

An amulet, a mystical or astronomical diagram used as an amulet.

A boring machine; दन्तौघयन्त्रोद्भवश्वभ्राली N.22.15. -Comp. -आरूढa. mounted on the revolving engine; भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया Bg. -आलयः a printing-press. -उपलः a mill, mill-stone. -करण्डिका a kind of magical basket. -कर्मकृत् m. an artist, artisan. -कोविदः a mechanist; Rām.2.8.2 (com. यन्त्रकोविदाः क्षेपणीयादि- यन्त्रकरणकुशलाः).

गृहम् an oil-mill.

a manufactory.

a torture-chamber; Buddh.

गोलः a kind of pea.

a canon-ball. -चेष्टितम् any magical work, an enchantment. -तक्षन् m.

a constructor of machines.

a preparer of charms. -तोरणम् a mechanical arch (fitted with contrivances to move it). -दृढ a. secured by a bolt (as a door). -धारागृहम् a room fitted with shower-bath; a bath-room. -नालम् a mechanical pipe or tube. -पुत्रकः, -पुत्रिका a mechanical doll, a puppet furnished with contrivances, such as strings, for moving the limbs. -पेषणी a hand-mill. -प्रवाहः an artificial stream of water; यन्त्रप्रवाहैः शिशिरैः परीतान् R.16.49.-बद्ध a. having a mechanical contrivance; यन्त्रबद्धतलाव- पातं कारयेत् Kau. A.1.2. -मार्गः a canal or an aqueduct. -मुक्तम् a kind of weapon. -विधिः m. the science of surgical instruments. -शरः an arrow or any missile shot off by means of machinery. -सद्मन् n. an oil-mill.-सूत्रम् the cord attached to the mechanism of a doll or puppet.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्र See. col. 3.

यन्त्र n. any instrument for holding or restraining or fastening , a prop , support , barrier RV. etc.

यन्त्र n. a fetter , band , tie , thong , rein , trace Mn. MBh.

यन्त्र n. a surgical instrument ( esp. a blunt one , such as tweezers , a vice etc. , opp. to शस्त्र) Sus3r. Va1gbh.

यन्त्र n. any instrument or apparatus , mechanical contrivance , engine , machine , implement , appliance (as a bolt or lock on a door , oars or sails in a boat , etc. ) MBh. Ka1v. etc. (See. कूप-, जल-, तैल-य्; ibc. or ifc. often = mechanical , magical)

यन्त्र n. restraint , force(670304 त्रेणind. forcibly , violently) MW.

यन्त्र n. an amulet , mystical diagram supposed to possess occult powers Katha1s. Pan5car. (See. RTL. 203 ).

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mechanical contrivance used by त्वष्टा to diminish the तेजस् of the sun; the surplus तेजस् became विष्णु's cakra, Rudra's trident and Indra's thunder bolt. M. ११. २७-9.

"https://sa.wiktionary.org/w/index.php?title=यन्त्र&oldid=503645" इत्यस्माद् पुनः प्राप्तिः