यमराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमराजः, पुं, (यमश्चासौ राजा चेति । “राजाहः सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) यमः । इति हेमचन्द्रः । २ । ९९ ॥ अस्य पुर्य्यादि यथा, “पुरी संयमनी तस्य चित्रगुप्तस्तु लेखकः । भृत्यौ चण्डमहाचण्डौ धूमोर्णाविजये प्रिये । विचार भूमिका नीचिः सहायाः कालपूरुषाः ॥” इति जटाधरः ॥ * ॥ स च विमात्रा छायया शप्तः । (यथा, मार्क- ण्डेये । ७७ । २५ -- २९ । “छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला । तथा न संज्ञाकन्यायां पुत्त्रयोश्चान्ववर्त्तत ॥ नलिनाद्युपभोगेषु विशेषमनुवासरम् । मनुस्तत्क्षान्तवानस्या यमस्तस्या न चक्षमे ॥ ताडनाय च वै कोपात् पादस्तेन समुद्यतः । तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥ ततः शशाप तं कोपात् छायासंज्ञा यमं द्बिज । किञ्चित् प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ॥ पितुः पत्नीममर्य्यादं यन्मां तर्ज्जयसे पदा । भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति ॥”) तच्छापान्तं यथा, -- “स्वरूपधारिणीं चेमामानिनाय निजाश्रमम् । संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥ ततः पूर्ब्बसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । द्बितीयस्तु यमः शापाद्धर्म्मदृष्टिरभूत् सुतः ॥ क्रिमयो मांसमादाय पादतस्ते महीतलम् । पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥ धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते । ततो नियोगं तं याम्ये चकार तिमिरापहः ॥ यमुना च नदी जज्ञे कलिन्दान्तरवाहिणी ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे । ७८ । २५ -- २९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमराज¦ पु॰ यमानां चतुर्दशानां राजा यमनियामको राजावा टच्समा॰। प्रेतानां राजनि धर्मराजे हमच॰। यमेषु राजते राच--क्विप्। यमराडप्यत्र अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमराज/ यम--राज m. id. L.

यमराज/ यम--राज m. N. of a physician Cat.

"https://sa.wiktionary.org/w/index.php?title=यमराज&oldid=379491" इत्यस्माद् प्रतिप्राप्तम्