यस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस, इर् य उ यतने । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।) इर्, अयसत् अयासीत् अयसीत् । अस्मात् पुषा- दित्वान्नित्यं ङ इत्यन्ये । य, प्रयस्यति । क्रम क्लम इत्यादिना केवलात् संपूर्ब्बाच्च अस्मात् श्यन् विकल्पात् यसति यस्यति संयस्यति संयसति । उ, यसित्वा यस्त्वा । यतनं यत्नः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस¦ यत्ने दिवा॰ पक्षे भ्वा॰ वा श्यन् पर॰ अक॰ सेट्। यस्यतियसति संयस्यति संयसति अनुयस्यति। इरित् अयसत्अयासीत् अयसीत्। अय पुषादिरित्यन्ये उदित् क्त्वावेट्। यसित्वा यस्त्वा यस्तः।

"https://sa.wiktionary.org/w/index.php?title=यस&oldid=381078" इत्यस्माद् प्रतिप्राप्तम्