याग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यागः, पुं, (इज्यते इति । यज् + घञ् ।) यज्ञः । इत्यमरः । २ । ७ । १३ ॥ तत्र श्रौताग्निकृत्य- हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदे वाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ- यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ- पशुबन्धः ६ सौत्रामणिः ७ । स्मार्त्ताग्निकृत्य- पाकयज्ञाः सप्त । यथा । औपासनम् १ वैश्व- देवः २ स्थालीपाकः ३ आग्रयणम् ४ सर्प- वलिः ५ ईशानवलिः ६ अष्टकान्यष्टका ७ । श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३ षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ । उत्तर- क्रतवो बहवः । यथा । महाव्रतम् १ सर्व्वतो- मुखम् २ राजसूयः ३ पौण्डरीकम् ४ अभि- जित् ५ विश्वजित् ६ अश्वमेधः ७ बृहस्पतिसवः ८ आङ्गिरसः ९ चयनान्यष्टादश २७ । इत्यादि श्रौतसूत्रम् ॥ * ॥ सर्व्वदेवानां यागकालो यथा, शुक्र उवाच । “स्वल्पेनैव तु द्रव्येण महापुण्यं यथा भदेत् । तदहं श्रोतुमिच्छामि ग्रहयागं सुरेश्वर ! ॥ ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि यथा त्वं परिपृच्छसि । अल्पकेन महापुण्यं ग्रहर्क्षतिथियौगिकम् ॥ भृगुपूर्णाष्टमीयोगं शिवयागेषु चोत्तमम् । मृदुवर्गञ्च भाग्यञ्च उमाया भृगुवासरे ॥ दैवयोगात् यदा षष्ठी पुष्यर्क्षरविवासरम् । स्कन्दयागस्तदा कार्य्यः सर्व्वकामप्रसाधकः ॥ वारेण वा यदा सूर्य्यः सप्तमी विजया मता । तदा तु भवते भानोर्यागः सर्व्वगुणावहः ॥ शशिरिक्तानुसंयोगे अर्कर्क्षे सोत्तरासु च । नवम्यां मङ्गलायोगो भानुमूलदिनं यदा ॥ अष्टम्यां वाथ चन्द्राहे श्रवणेन शुभावहम् । अहिव्रध्ने कुजाहे तु गणेशे तस्य वाहनि ॥ पुनर्व्वसौ गुरोर्व्वारे द्बादश्यां श्रवणेन वा । सोमग्रस्तं यदा योगं विष्णोः सर्व्वार्थसाधकम् ॥ द्बितीयायां यदा सौम्ये कृत्तिकर्क्षं भवेत् क्वचित् । ग्रहयागस्तदा कार्य्यः सर्व्वशान्तिप्रदायकः ॥ स्वातीसौमी चतुर्थी च उमायागे वरा स्मृता ॥ उत्तरासु च सर्व्वासु भानुपौर्णाष्टमीषु च । शान्त्यभिषेकयागेयु सर्व्वकामार्थदाष्टमी ॥ गुरावेकादशी पुष्ये रोहिण्या वा यदा शनिः । सुतसौगाग्यकामाय यागो रुद्रविनायके ॥ पूर्णिमासु च सर्व्वासु अष्टमीद्वादशीषु च । चतुर्द्दश्यां तृतीयासु ग्रह ऋक्षे शुभेषु च । सर्व्वेषां भवते यागो भक्तिपूर्व्वो महामुने ! ॥ मन्त्रसाधनद्रव्यायो रुद्रयागादवाप्यते । श्रीमेधाज्ञानवात्सल्यमुमायागाज्महामुने ॥ योगज्ञानयशःसिद्धिं महादेवादवाप्नुयात् । रुद्रदेवताकां अमुकगोत्राय अमुकदेवशर्म्मणे ब्राह्मणाय ऋत्विजे तुभ्यमहं संप्रददे । अन्यार्थ- ञ्चेत् ददानीति ब्रूयात् । कपिलाभावे गोमात्रं वा । तदभावे काञ्चनम् । तदभावे रजतादिकं वा दद्यात् । काञ्चनादिकन्तु शङ्खादि दक्षिणा- भवेऽपि दद्यात् ॥ १ ॥ एवम् । पुण्यस्त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् । विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य पूर्ब्बोक्तक्रमेण सोमग्रहयज्ञे शङ्खं दद्यात् ॥ २ ॥ ओ~ धर्म्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य मङ्गलयज्ञे वृषं दद्यात् ॥ ३ ॥ ओ~ हिरण्यगर्भगर्भस्त्वं हेमरूपं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य बुधयज्ञे काञ्चनं दद्यात् ॥ ४ ॥ ओ~ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् । वरप्रदानात्तद्विष्णोरतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य गुरुयज्ञे पीतवस्त्रयुगं दद्यात् तद- भावेऽन्यवर्णवासोयुगमपि दद्यात् ॥ ५ ॥ ओ~ विष्णुस्त्वमश्वरूपेण यस्मादर्णवसम्भवः । चन्द्रार्कवाहनस्त्वं वै अतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य शुक्रयज्ञे अश्वं दद्यात् ॥ ६ ॥ ओ~ यस्मात्त्वं पृथिवी सर्व्वा धेनुः केशवसम्भवा । सर्व्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य शनैश्चरयज्ञे कृष्णां धेनुं अन्यवर्णां वा दद्यात् ॥ ७ ॥ ओ~ यस्मादायुधकर्म्माणि त्वदधीनानि सर्व्वदा । लाङ्गलाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य राहुयज्ञे लौहं दद्यात् ॥ ८ ॥ ओ~ यस्मात्त्वं सर्व्वभूतानां मङ्गलाय व्यव- स्थितः । यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य केतुयज्ञे छागं दद्यात् ॥ ९ ॥ दक्षिणाजलं शान्तिकुम्भजलेन संमिश्र्य शान्तिं कुर्य्यात् । ततः कृताञ्जलिः । ओ~ गच्छध्वममराः सर्व्वे गृहीत्वार्च्चां स्वमा- लयम् । सन्तुष्टा वरमस्माकं दत्त्वेदानीं सुपूजिताः ॥ इति विष्णुधर्म्मोत्तरीयं पठित्वा ग्रहान् विस- र्जयेत् । दक्षिणा च प्रदातव्या ग्रहाणाञ्च विस- र्जनमिति वशिष्ठवचनात् ।” इति रघुनन्दन- भट्टाचार्य्यविरचितग्रहयागप्रयोगः समाप्तः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याग पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।4

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याग¦ पु॰ यज--घञ्। मन्त्रकरणके वह्न्याद्यधिकरणे देवोद्देशेनहविस्त्यागरूपे यज्ञे अमरः। तद्भेदाः कात्यायनादि-श्रौत्रसूत्रादौ दृश्याः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याग¦ m. (-गः) A sacrifice, any ceremony in which offerings and obla- tions are presented. E. यज् to worship, aff. घज् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यागः [yāgḥ], [यज् घञ् कुत्वम्]

An offering, a sacrifice, an oblation; इष्टिर्यागः ŚB. on MS.6.8.7.

Any ceremony in which oblations are presented, with a direct reference to a deity; प्रत्यक्षदेवतासम्बद्धो हि त्यागो यागः ŚB. on MS.9.4.47; ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः (अनृणत्वमुपेयिवान्) R.8.3.

Presentation, grant.-Comp. -ईश्वरः a certain crystal phallus of Śiva; यस्यासौ जलदेवतास्फटिकभूर्जागर्ति यागेश्वरः N.12.38. कण्टकः a bad sacrificer -करणम् a sacrificial ceremony. -संतानः N. of Jayanta. -संप्रदानम् the recipient of a sacrifice. Kāśi. on P.IV.2.24. -सूत्रम् the sacrificial sacred thread.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याग m. (1. यज्)an offering , oblation , sacrifice

याग m. any ceremony in which offerings or oblations are presented Ya1jn5. Ragh. Ra1jat. etc.

याग m. presentation , grant , bestowal Hcat.

"https://sa.wiktionary.org/w/index.php?title=याग&oldid=381140" इत्यस्माद् प्रतिप्राप्तम्