याच्ञा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याच्ञा, स्त्री, (याचनमिति । याच् + “यजयाच्- यतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) याचनम् । तत्पर्य्यायः । अभिशस्तिः २ याचना ३ अर्थना ४ भिक्षा ५ अर्दना ६ । इत्यमरः । २ । ७ । ३२ ॥ लालसा ७ । इति जटाधरः ॥ (यथा, भागवते । २ । ७ । १७ । “ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञः । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥”) तद्वैदिकपर्य्यायः । ईमहे १ यामि २ मन्महे ३ दद्धि ४ शग्धि ५ पूर्द्धि ६ मिमिढ्ढि ७ मिमीहि ८ रिरिढ्ढि ९ रिरीहि १० पीपरत् ११ यन्तारः १२ यन्धि १३ इषुध्यति १४ मदेमहि १५ मनामहे १६ मायते १७ । इति सप्तदश याच्ञाकर्म्माणः । इति वेदनिघण्टौ ३ अः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याच्ञा¦ स्त्री याच--नङ्। प्रार्थनायाम् अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याच्ञा [yācñā], [याच्-नङ्]

Begging, asking.

Mendicancy.

Request, solicitation, entreaty; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6.

Making an offer of marriage.-Comp. -जीवनम् subsisting by begging. -भङ्गः useless request.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याच्ञा f. begging , asking for( comp. ) , asking alms , mendicancy , any petition or request , prayer , entreaty TS. etc. ( याच्ञां-कृ, to fulfil a request)

याच्ञा f. the being a suitor , making an offer of marriage Katha1s.

"https://sa.wiktionary.org/w/index.php?title=याच्ञा&oldid=381276" इत्यस्माद् प्रतिप्राप्तम्