याजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजकः, पुं, (यजतीति । यज् + ण्वुल् ।) याज्ञिकः । राज्ञो गजः । इति मेदिनी । के, १४२ ॥ मत्तहस्ती । इति जटाधरः ॥ ऋत्विक् । यथा, “अग्नीध्राद्या धनैर्व्वार्य्या ऋत्विजो याज- काश्च ते ॥” इत्यमरः । २ । ७ । १७ ॥ “यजमानेन धनैर्व्वार्य्याः धनानि दत्त्वा इष्टसम्पा- दनाय व्रियन्ते प्रार्थ्यन्ते ये अग्नीध्रप्रभृतयस्ते ऋत्विजो याचकाश्च कथ्यन्ते । अग्निं इन्धयन्ति दीपयन्ति अग्नीध्राः इन्धी ञि ध ङ द्युतौ ञिः नाम्नीति रः मनीषादित्वान्नलोपः । आदिना ब्रह्मोद्गातृहोत्रध्वर्य्युब्राह्मणाच्छंसिप्रभृतयः षो- डश गृह्यन्ते । वार्य्या इति हसृय्वासोरिति घ्यण् दृभृजुषेत्यादौ वृ ञ इति ञानुबन्धनिर्द्देशात् अन्यवृधातोर्न क्यप् ऋतौ यजन्ति ऋत्विजः क्विप् । यजन्ति याचकाः णकः ।” इति भरतः ॥ * ॥ बहुयाजकग्रामयाजकयोर्निन्दा यथा, -- “अब्राह्मणास्तु षट् प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः । आद्यो राजभृतस्तेषां द्बितीयः क्रयविक्रयी ॥ तृतीयो बहुयाज्यः स्याच्चतुर्थो ग्रामयाजकः । पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च ॥ अनादित्वाञ्च यः पूर्ब्बां सादित्याञ्चैव पश्चि- माम् । नोपासीत द्बिजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः ॥” इत्याह्निकतत्त्वे सन्ध्योपासनम् ॥ अपि च । “शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः । शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ॥ सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः । एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजक पुं।

ऋत्विक्

समानार्थक:ऋत्विज्,याजक

2।7।17।2।2

अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्. आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजक¦ पु॰ याजयति यज--णिच्--ण्वुल्। धनादिलाभायपरार्थं यज्ञकर्तरि ऋत्विगादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजक¦ m. (-कः)
1. An officiating priest, a Bra4hamana who conducts any part of a sacrifice.
2. A royal elephant.
3. A furious elephant. E. यज् to worship, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजकः [yājakḥ], [यज्-ण्वुल्]

A sacrificer, a sacrificing priest; अयाजयन् महाराजं याजका देववर्चसः Bhāg.1.74.16.

A royal elephant.

An elephant in rut.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजक m. (fr. Caus. ) a sacrificer , ( ifc. )one who offers sacrifices or oblations for or to(See. ग्राम-, नक्षत्र-य्) Mn. MBh. etc. (671277 -त्वn. )

याजक m. a royal elephant (also -गज) L.

याजक m. an elephant in rut L.

"https://sa.wiktionary.org/w/index.php?title=याजक&oldid=381323" इत्यस्माद् प्रतिप्राप्तम्