याता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याता, [ऋ] स्त्री, (यततेऽन्योन्यभेदायेति । यत् + “तृन् ।” उणा० २ । ९८ । इति तृन् ।) पतिभ्रातृपत्नी । इत्यमरः । १ । ६ । ३० ॥ या इति भाषा । (यथा, साहित्यदर्पणे । ३ । ७८ । “स्वामी निश्वसितेऽप्यसूयति मनो जिघ्रः सपत्नी- जनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ॥” या + तृच् । गमनकर्त्तरि, त्रि ॥ (यथा, बृहत्- संहितायाम् । ३३ । १३ । “उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥” सारथ्यादिः । यथा, मनौ । ८ । २९० । “यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥” “यातुः सारथ्यादेः ।” इति कुल्लूकः ॥ हन्ता । यथा, ऋग्वेदे । १ । ३२ । १४ । “अहेर्यातारं कमपश्य इन्द्र ।” “यातारं हन्तारम् ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=याता&oldid=159852" इत्यस्माद् प्रतिप्राप्तम्