युवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवा, [न्] त्रि, (यौतीति । यु + “कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ।” उणा० १ । १५६ । इति कनिन् ।) तरुणः । (यथा, मनौ । २ । १२० । “ऊर्द्धं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥”) श्रेष्ठः । निसर्गबलशाली । इति मेदिनी । ने, ११३ ॥

युवा, [न्] पुं, (यौतीति । यु + कनिन् ।) यौवनावस्थाविशिष्टः । षोडशवर्षात् त्रिंशद्वर्ष- पर्य्यन्तवयस्कः । इति केचित् ॥ षोडशवर्षात् सप्ततिवर्षपर्य्यन्तवयस्कः । यथा, -- “आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्धं वर्षीयान् नवतेः परम् ॥” इति भरतधृतस्मृतिः ॥ (“आषोडशाद्भवेद्बालः पञ्चत्रिंशत् युवा नरः ।” इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥) तत्पर्य्यायः । वयस्थः २ तरुणः ३ । इत्यमरः । २ । ६ । ४२ ॥ वयःस्थः ४ तलुनः ५ । इति शब्द- रत्नावली ॥ गर्भरूपः ६ वेटकः ७ । इति जटा- धरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवा (for 2. See. col. 3) , in comp. for 1. युव.

युवा f. (for 1. See. col. 2) N. of one of अग्नि's arrows TS.

"https://sa.wiktionary.org/w/index.php?title=युवा&oldid=503680" इत्यस्माद् प्रतिप्राप्तम्