यूका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यूका, स्त्री, (यूक + स्त्रियां टाप् ।) मत्कुणः । यूञी इति उकुण इति च भाषा । तत्पर्य्यायः । केशकीटः २ स्वेदजः ३ षट्पदः ४ । इति राजनिर्घण्टः ॥ पाली ५ बालकृमिः ६ । इति जटाधरः ॥ (यथा, मनौ । १ । ४५ । “स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । उष्मणश्चोपजायन्ते यच्चान्यत् किञ्चिदीदृशम् ॥” क्रिमिविशेषः । तद्यथा, -- “नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः । तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥ बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः । द्बिधा ते कोठपिडकाः कण्डूगण्डान् प्रकुर्व्वते ॥” इति माधवकरसंग्रहीतरुग्विनिश्चये क्रिम्यधि- कारे ॥ “क्रिमयो द्विविधाः प्रोक्ता बाह्याभ्यन्तरसम्भवाः । बाह्या यूकाः प्रसिद्धाः स्युः किञ्चुलूकास्तथा- न्तराः ॥ सप्तधा हि भवेद्बाह्याः षड्धा चान्तःसमुद्भवाः । तेषां वक्ष्यामि संभूतिं बाह्यानाभ्यन्तरे नृणाम् ॥ रूक्षादति बलात् स्वेदाच्चिन्तया शोचनादपि । कफधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ॥ यूकाः कृष्णाः पराः श्वेतास्तृतीयाश्चर्म्मणि स्थिताः । सूक्ष्मातिविकटा रूक्षाश्चर्म्माभाश्चर्म्मयूकिकाः ॥ चतुर्थी विन्दुकी नाम वर्त्तुला मूत्रसम्भवा । मत्कुणाद्याश्च पञ्चम्यो वाह्योपद्रवकारिणः ॥ यूका मस्तकसंस्थाने श्वेता वस्त्रनिवासिनी । चर्म्मयूका नेत्रचर्म्मे सूक्ष्मे रोमणि यष्टिका ॥” इति हारीते चिकित्सितस्थाने पञ्चमेऽध्याये ॥ यूकानाशकौषधं यथा, कामरत्ने । “विडङ्गगन्धोत्पलकल्कयोगात् गोमूत्रसिद्धं कटुतैलमेतत् । अभ्यङ्गयोगेन शिरोरुहाणां यूकादिलीक्षाप्रचयं निहन्ति ॥ गोमूत्रेण बलामूललेपो यूकानिवारणः । पारदं मर्द्दयेन्निष्ककृष्णधुस्तूरजद्रवैः ॥ नागवल्लीद्रवैर्व्वाथ वस्त्रखण्डं प्रलेपयेत् । तद्द्वस्त्रं वेष्टयेन्मौलौ धार्य्यं यामत्रयं तथा ॥ यूका पतन्ति निःशेषान्मस्तकान्नात्र संशयः । द्विनिशानवनीतेन लेपान्मौलौ प्रकण्डुनुत् ॥ नीलोत्पलं तिलं यष्टि सर्षपं नागकेशरम् । धात्रीफलं समं पिष्ट्वा लेपो यूकाविनाशनः ॥ निशागन्धकगोमूत्रं विडङ्गकटुतैलकम् । पारदेन समं मर्द्द्यं लेपो यूकानिवारणः ॥” इति केशस्य यूकादिनिवारणम् ॥ परिमाणभेदः । यथा, मार्कण्डेये । ४९ । ३७ । “परमाणुः परं सूक्ष्मं त्रसरेणुर्म्महीरजः । बालाग्रञ्चैव निष्काञ्च यूकां चाथ यवोदरम् ॥”)
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a measurement; eight times the लिख्या (स्।व्।), (लिक्षा). Br. IV. 2. १२१; M. २५८. १८; वा. १०१. १२१.