यौष्माक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौष्माकम्, त्रि, (युष्मद् + अण् । “तस्मिन्नणि च युष्माकास्माकौ ।” ४ । ३ । २ । इति प्रकृते- र्युष्मकादेशः ।) युष्मत्सम्बन्धि । युष्माकमिदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध- व्याकरणम् ॥ (यथा, कथासरित्सागरे । ११२ । २०५ । “इत्याद्यस्मासु जल्पत्सु मिलितेष्वत्र तत्क्षणम् । विद्याधरो धूमशिखो यौष्माकोऽवातरद्दिवः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौष्माक¦ त्रि॰ युष्माकमिदम् युष्मद् + अण् युष्माकादेशः। यु-ष्मत्सम्बन्धिनि। खञ्। यौष्मकीनोऽप्यत्र त्रि॰। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये यकारादि-शब्दार्थसङ्कलनम्। ररकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात् अन्त-स्थवर्णः। अस्योच्चारणस्थानं मूर्द्ध्वा। जिह्वाग्रेण मूर्द्ध्व-स्थानस्येषत्स्पर्शेनोच्चारणादस्य आम्यन्तरप्रयत्न ईषत्-स्पृष्टम्। बाह्यप्रयत्नाश्च संवारनादघोषा अल्पप्राणश्च। वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा
“रो रक्तः क्रोधिनी रेफः पावकस्तैजसो मतः। प्रकाशीदर्शनो दीपा रततृष्णा परं बली। भुजङ्गेशो मतिःसूर्य्यो धातू रक्तप्रकाशकः। व्यापको रेवती दानं दक्षांसोवह्निमण्डलम्। उग्रवेगा स्थूलदण्डो वेदकर्णोपलाम्बरा। प्रकृतिः सुगलो ब्रह्मशब्दश्च गायको घनः। श्रीकण्ठऊष्मा हृदयं मुण्डी त्रिपुरसुन्दरी। सविन्दुर्योनिजोज्वाला श्रीशैलो विश्वतोमुखी”। अस्य व्येयरूपं यथा
“रेफञ्च चञ्चलापाङ्गि! कुण्डलीद्वयसंयुतम्। रुक्त-विद्युल्लताकारं पञ्चदेवात्मकं सदा। पञ्चप्राणमयं वर्ण[Page4784-a+ 38] त्रिविन्दुसहितं सदा” कामधेनुत॰।
“अस्याधिष्ठातृ-देवतारूपं यथा
“ललज्जिह्वां महारौद्रीं रक्तास्यां रक्त-लोचनाम्। रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम्। रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम्। महामोक्ष-प्रदां नित्यामष्टसिद्धिप्रदायिकाम्। एवं ध्यात्वा ब्रह्म-रूपां तन्मन्त्रं दशधा जपेत्”। मातृकान्थासेऽस्य दक्षांसेन्यास्यता। काव्यादौ प्रयोगे
“रस्तु दाहम्” वृ॰ र॰टीकोक्तेः दाहः फलम्। पु॰ रा--ड।

१ वह्नौ

२ उग्रे मेदि॰।

३ कामानले च शब्दर॰।

४ छन्दःशास्त्रप्रसिद्धे लघुमध्ये आद्यन्तगुरुयुते रगणे का-व्यादौ तस्य प्रथमप्रयोगे मरणं फलम् अस्य देवताऽग्निः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौष्माक¦ mfn. (-कः-की-कं) Yours, belonging to you. E. युष्माक for युष्मद you, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौष्माक [yauṣmāka], a. (-की f.), यौष्माकीण (णा f.) a. Your, र

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौष्माक mf( ई)n. (fr. युष्म)your , yours Katha1s. ( Pa1n2. 4-3 , 1 ; 2 ).

"https://sa.wiktionary.org/w/index.php?title=यौष्माक&oldid=387333" इत्यस्माद् प्रतिप्राप्तम्