रक्तगुल्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्तगुल्मः, पुं, (रक्तजो गुल्मः इति मध्यपदलोपी कर्म्मधारयः ।) स्त्रीणां रक्तजगुल्मरोगः । तस्यौ- षधं यथा, -- “द्विजयष्टीत्रिकटुकं चूर्णं षीतं हरेच्छिव ! । तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ! ॥” इति गारुडे १९६ अध्यायः ॥ (तथास्य निदानादिकं यथा, -- “शोणितगुल्मस्तु खलु स्त्रिया एव भवति न पुरुषस्य गर्भकोष्ठार्त्तवागमनवैशेष्यात् । पार- तन्त्र्यादवैशारद्यात् सततमपचारानुरोधा- द्वेगानुदीर्णानुपरुन्धन्त्या आमगर्भे वाप्यचिरात् पतिते तथाप्यचिरप्रजाताया ऋतौ वा वात- प्रकोपनान्यासेवमानाया वातः प्रकोपमाप- द्यते । स प्रकुपितो योन्या मुखमनुप्रविश्यार्त्तव- मुपरुणद्धि मासि मासि तदार्त्तवमुपरुध्यमानं कुक्षि वर्द्धयति । तस्याः शूलकासातीसार- च्छर्द्यरोचकाविपाकाङ्गमर्द्दनिद्रालस्यकफप्रसेकाः समुपजायन्ते स्तनयोश्च स्तन्यमोष्ठयोः स्तनमण्ड- लयोश्च कार्ष्ण्यं म्लानिः चक्षुषोर्मूच्छा हृल्लासो दोहदः श्वयथुः पादयोरीषच्चोद्गमो रोमराज्या योन्याश्चाजालत्वमपिच योन्या दौर्गन्ध्यमास्राव- श्चोपजायते । केवलश्चास्या गुल्मः स्यन्दते तामगर्भाङ्गर्भिणीमित्याहुर्मूढाः ॥” इति चरके निदानस्थाने तृतीयेऽध्याये ॥ यथा च । “न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम् । तं गर्भकालातिगमे चिकित्म्य- मसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ॥” इति सुश्रुते उत्तरतन्त्रे ४२ अध्यायः ॥ तथा च । रक्तगुल्मस्तु स्त्रिया एव प्रजायते । यथा, -- “ऋतौ वा नवसूता वा यदि वा योनिरोगिणी । सेवते वातलानिस्त्री क्रुद्धस्तस्याः समीरणः ॥ निरुणद्ध्यार्त्तवं योन्यां प्रतिमासमवस्थितम् । कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च ॥ हृल्लासदौर्हृदस्तन्यदर्शनं क्षामतादिकम् । क्रमेण वायुसंसर्गात् पित्तयोनितया च तत् ॥ शोणितं कुरुते तस्या वातपित्तोत्यगुल्मजान् । रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान् ॥ गर्भाशये च सुतरां शूल दुष्टासृगाश्रये । योन्याश्च स्रावदौर्गन्ध्यतोदस्यन्दनवेदनाः ॥ न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान् । पिण्डीभूतः स एवस्याः कदाचित् स्पन्दते चिरात् ॥ न चास्या वर्द्धते कुक्षिर्गुल्म एव तु वर्द्धते । स्वदोषसंश्रयो गुल्मः सर्व्वो भवति तेन सः ॥’ पाकं चिरेण भजते नैव वा -- ॥” इति वाभटे निदानस्थाने एकादशेऽध्याये ॥ * ॥ तथास्य चिकित्सा । “सरक्तगुल्मे न च पाचनन्तु न हिङ्गुपानं कटिचालनञ्च । न चैव संस्वेदनमर्द्दनञ्च न वा क्रमेन्नोत्प्लवनं हितञ्च ॥ रोध्रार्ज्जुनं खदिरमागधिका समङ्गा क्वाथोऽम्रवेतससमं घृतसंप्रयुक्तम् । गुल्मं सरक्तमपि चाथ निहन्ति शीघ्रं हृत्क्लेदनञ्च विनिहन्ति च क्रुद्धरक्तम् ॥ क्षीरपानं प्रदातव्यं घृतसौवर्च्चलान्वितम् । रक्तगुल्मविनाशाय यकृद्बिक्षतजेऽपि वा ॥ न हिङ्गुसंयुतं पथ्यं न चोष्णं न विदाहि च । रक्तजे क्षतजे गुल्मे मांसानि जाङ्गलानि च ॥” इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥) अन्यत् गुल्मशब्दे द्रष्टव्यम् ॥ * ॥
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्तगुल्म¦ m. (-ल्मः)
1. A disease, a hard lump in the abdomen of the female after conception, perhaps scirrhus of the ovarium.
2. A clot of blood. E. रक्त and गुल्म cluster.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्तगुल्म/ रक्त--गुल्म m. a particular form of the disease called गुल्मGa1rud2aP.