रविचक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रविचक्रम्, क्ली, (रवेश्चक्रम् ।) नराकारसूर्य्यचक्र- विशेषः । यथा, -- “लिख्यते रविचक्रन्तु भास्करो नरसन्निभः ॥ यस्मिन्नृक्षे भवेत् सूर्य्यस्तत्रादौ त्रीणि मस्तके । त्रयं वक्त्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत् ॥ एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्बयोः । हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत् ॥ ऋक्षमेकं ददेद्गुह्ये एकैकं जानुके न्यसेत् । नक्षत्राणि च शेषाणि रविपादे नियोजयेत् ॥ चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः । विदेशगमनं जानौ गुह्यस्थे परदारवान् ॥ नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः । पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्भुजे ॥ स्कन्धस्थिते धनपतिर्म्मुखे मिष्टान्नमाप्नुयात् । मस्तके पट्वबन्धस्तु नक्षत्रं स्याद्यदि स्थितम् ॥” इति गारुडे ६० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रविचक्रम्&oldid=160990" इत्यस्माद् प्रतिप्राप्तम्