रस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रस, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) रसति । इति दुर्गादासः ॥
रस, त् क आस्वादे । स्नेहे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) दन्त्योपधः । रसयति मधु द्विरेफः । इति दुर्गादासः ॥
रसम्, क्ली, बोलम् । इति राजनिर्घण्टः ॥
रसः, पुं, (रसतीति । रस् + पचाद्यच् । यद्बा, रस्यते इति । रस आस्वादने + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) रसनेन्द्रियग्राह्य- वस्तु । स च कालसहायभूमिवियदनिलानलसंस- र्गेण परिणामान्तरं गतः षट्प्रकारो भवति । तत्र पृथिव्यम्बुगुणबाहुल्यान्मधुरः १ तोयाग्नि- गुणबाहुल्यादम्लः २ पृथिव्यग्निगुण बाहुल्या- ल्लवणः ३ वाय्वग्निगुणबाहुल्यात् कटुकः ४ वाय्वाकाशगुणबाहुल्यात् तिक्तः ५ पृथिव्यनिल- गुणबाहुल्यात् कषायः ६ । आपो रसाना- माधारकारणं अत आप्यो नाम । अपां पृथिव्यामनुप्रवेशात् पृथिव्याप्याधारकारणमेव । तेन जलक्षिती अपि तदाधारतया रसाना- मभिव्यक्तौ कारणे । अभिव्यक्तेश्च मधुरादिरूप- मन्तरेणासम्भवान्मधुरादिविशेषेऽपि जलक्षिती कारणे । अग्न्यादयस्तु त्रयः नीरसतया मधु- रादिविशेषे प्राधान्येन निमित्तकारणम् । तद्व्यतिरेकेणाम्लादिरसाभावात् । रसाभिव्यक्तेश्च अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभि- व्यक्तावपि अग्न्यादीनां कारणत्वम् । तदुक्तं चरके । “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा । निर्व्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥” एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भ वन्ति । इति चक्रपाणिदत्तकृतद्रव्यगुणोपरि शिवदासीयटीका ॥ * ॥ (तथाच । अल्पमात्रोपयोगित्वादरुचेरप्रसङ्गतः । क्षिप्रमारोग्यदायित्वादौषधेभ्योऽधिको रसः ॥ साध्येषु भेषजं सर्व्वमीरितं तत्त्ववेदिना । असाध्येष्वपि दातव्यो रसोऽतः श्रेष्ठ उच्यते ॥ हतो हन्ति जराव्याधिं मूर्च्छितो व्याधिघातकः । वङ्गः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः ॥” अथ रसपर्य्यायमाह । “रसेन्द्रः पारदः सूतः सूतराजश्च सूतकः । शिवतेजो रसः सप्त नामान्येवं रसस्य तु ॥” मतान्तरम् । “शिवबीजं रसः सूतः पारदश्च रसेन्द्रकः । एतानि रसनामानि तथान्यानि यथा शिवे ॥” यथा शिवे इत्यनेन शिवपर्य्यायाणामपि रस- वाचकत्वम् ॥ * ॥ अथ रसलक्षणम् । “अन्तः सुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्य्यप्रतिमप्रकाशः । शस्तोऽथ धूम्रः परिपाण्डरश्च चित्रो न योज्यो रसकर्म्मसिद्धौ ॥” नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः । असह्याग्निर्महादोषा निसर्गाः पारदे स्थिताः ॥ व्रणं कुष्ठं तथा जाड्यं दाहं वीर्य्यस्य नाशनम् । मरणं जडतां स्फोटं कुर्व्वन्त्येते क्रमान्नृणाम् ॥ तस्माद्रसस्य संशुद्धिं विदध्याद्भिषजां वरः । शुद्धोऽयममृतं साक्षाद्दोषयुक्तो रसो विषम् ॥” “शतं पञ्चाशतं वापि पञ्चविंशद्दशैव च । पञ्चैकं वा पलञ्चैव पलार्द्धं कर्षमेव च ॥ कर्षान्न्यूनो न कर्त्तव्यो रससंस्कार उत्तमः । प्रयोगेषु च सर्व्वेषु यथालाभं प्रकल्पयेत् ॥ शुभेऽह्नि विष्णुं परिचिन्त्य कुर्य्यात् सम्यक्कुमारीवटुकार्च्चनञ्च । सुलोहपाषाणसमुद्भवेऽस्मिन् दृढे च वेदाङ्गुलिगर्भमात्रे ॥ सुतप्तखल्वे निजमन्त्रयुक्तां विधाय रक्षां स्थिरसारबुद्धिः । अनन्यचित्तः शिवभक्तियुक्तः समाचरेत् कर्म्मरसस्य तज्ज्ञः ॥” “अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्व्वतः सर्व्वसर्व्वेभ्यो नमस्ते रुद्ररूपिभ्यः ॥” इति रक्षामन्त्रः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥ विस्तृतविवृतिरस्य पारदशब्देऽभिहिता ॥ शिरालसः । तत्पर्य्यायो यथा, -- “कपिनामा कपितैलं कृत्रिमं कपिलश्चलः । तुरुष्को मुक्तिमुक्तश्च पिण्डातेः सिह्लको रसः ॥” हिङ्गुलम् ॥ तत्पर्य्यायो यथा, -- “रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥” इति वैद्यकरत्नमालायाम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रस पुं।
रसनेन्द्रियविषयः
समानार्थक:रस
1।5।7।2।4
मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥
: कषायरसः, मधुररसः, लवणरसः, कटुरसः, तिक्तरसः, अम्लरसः, मधुरम्
पदार्थ-विभागः : , गुणः, रसः
रस पुं।
पारदः
समानार्थक:चपल,रस,सूत,पारद
2।9।99।2।4
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
रस पुं।
गन्धरसः
समानार्थक:बोल,गन्धरस,प्राण,पिण्ड,गोप,रस
2।9।104।2।6
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
रस पुं।
गुणः
समानार्थक:सत्त्व,रजस्,तमस्,रस
3।3।228।1।1
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥
पदार्थ-विभागः : , गुणः
रस पुं।
रागः
समानार्थक:रस
3।3।228।1।1
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥
पदार्थ-विभागः : , गुणः, मानसिकभावः
रस पुं।
शृङ्गारादिः
समानार्थक:रस
3।3।228।1।1
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥
: शृङ्गाररसः, वीररसः, करुणरसः, हास्यरसः, बीभत्सरसः, अद्भुतरसः, भयानकरसः, रौद्ररसः
पदार्थ-विभागः : , गुणः, मानसिकभावः
रस पुं।
विषम्
समानार्थक:क्ष्वेड,गरल,विष,तीक्ष्ण,रस
3।3।228।1।1
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥
वृत्तिवान् : विषहारिवैद्यः
: स्थावरविषभेदाः
पदार्थ-विभागः : , द्रव्यम्
रस पुं।
वीर्यम्
समानार्थक:भग,रस
3।3।228।1।1
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥
पदार्थ-विभागः : अवयवः
रस पुं।
द्रवः
समानार्थक:रस
3।3।228।1।1
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रस¦ स्वने भ्वा॰ प॰ अक॰ सेट्। रसति अरासीत् अरसीत्। ररास रेसतुः।
रस¦ आस्वादे अ॰ चु॰ उ॰ सक॰ सेट्। रसयति ते अररसत् त
रस¦ पु॰ रस्यते रस--अच्। आस्वाद्ये रसनेन्द्रियग्राह्ये
१ मधु-र्य्यादिगुणभेदे
२ देहस्थे भुक्तान्नादेः प्रथमपरिणामे
३ सारेच
“ओषधीनां रसः” इति ताण्ड्यब्रा॰
“रसः सारः” भा॰।
४ धातुभेदे पारदे
५ माधुर्य्या दरसवति गुडादौ त्रि॰
६ पुष्पस्य मधुनि
७ अलङ्कारोक्ते विभावानुभावसञ्चारि-काभावव्यङ्ग्ये रत्यादिस्थायिभावके शृङ्गारादौ।
८ विषे
९ वीर्य्ये
१० रागे
११ द्रवे अमरः
१२ जले च
१३ गन्धरसेपुंन॰ मेदि॰
१४ अन्ने च निघण्टुः। पारदशब्दे
४३
११ पृष्ठादौ रसशोधनादि दृश्यम्। देहस्थधातुहेतुरसस्वरूपादि भावप्र॰ उक्तं यथा
“यत्पाथो रसधातुर्यस्ततोऽभवदपां रसः। सद्रवं सकलंदेहं रसतीति रसः स्मृतः। ” अथ रसस्य स्वरूपमाह
“सम्यक् पक्वस्य भुक्तस्य सारो निगदितो रसः। स तुद्रवः सितः शीतः स्वादुः स्निग्धश्चलो भवेत्। सारो यथा गुडमधूकपुष्पबकुलत्वग्वदरीमूलादिभवःसारो मदिरा। अथ रसस्य स्थानमाह
“सर्वदेहचरस्यासि रसस्य हृदयं स्थलम्। समानसरुता पूर्वंयदयं हृदये धृतः। ” अथ रसस्य कर्माण्याह
“आरुह्यधननीर्गत्वा धातून् सर्वानयं रसः। पुष्णाति तदनुस्वीयैर्व्याप्नोति च तनुं गुणैः। ” गुणैः शीतस्निग्ध-पोषकत्वगुणैः शीतस्निग्धपोषकत्वैः
“मन्दवह्निविदग्धस्तुकटुर्वाम्लो भवेद्रसः। स कुर्य्याद्बहुलान् रोगान्विषकृत्यं करोत्यपि। ” असृक्करशब्दे दृश्यम्। अलङ्कारशास्त्रोक्तो रसो नवविधः।
“शृङ्गारहास्यकरुणरौद्रवीरभयानकाः। बीभत्सोऽद्भुत इत्यष्टौ रसाशान्तस्तथा मतः। ” सा॰ द॰ तल्लक्षणं तत्रैव यथा
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा। रसतामेतिरत्यादिः स्थायी भावः सचेतसाम्”।
“विभावादयोवक्ष्यन्ते। सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः। व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतः व्यक्तीकृत एवरसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते। तदुक्तंलोचनकारैः
“रसाः प्रतीयन्त इति त्वोदनं पचती-तिवद्यवहार इति”। अत्र च रव्यादिपदोपादानादेवप्राप्ने स्थायित्वे पुनः स्थायिपदोपानं रत्यादीनामपि रसा-न्तरेष्वस्थायित्वप्रतिपादनार्थम्। ततश्च हासक्रोधादयः[Page4795-a+ 38] शृङ्गारवीरादौ ष्यभिचारिण एव। तदुक्तम्
“रसावस्थःपरं भावः स्थायितां प्रतिपद्यते” इति। अस्य स्वरूप-कथनगर्भ आस्वादप्रकारः कथ्यते।
“सत्त्वोद्रेकादखण्ड-स्वप्रकाशानन्दचिन्मयः। वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वाद-सहोदरः। लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः। स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः। रजस्तमोभ्या-मस्पृष्टं मनः सत्त्वमिहोच्यते” इत्युक्तप्रकारोबाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्यो-द्रेक॰ रजस्तमसी अभिभूयाविर्भावः। अच च हेतुस्तथा-विधालौकिकक्राव्यार्थपरिशीलनम्। अखण्ड इत्येकएवायं विमावादिरत्यादिप्रकाशसुखचमत्कारात्मकः। अत्र हेतुं वक्ष्यामः। स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या। चिन्मय इति स्वरूपार्थे मयट्। चमत्कारश्चित्तविस्तार-रूपो विस्मयापरपर्य्यायः। तत्प्राणत्वञ्चास्मद्बृद्धप्रपिता-महसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नायणपादै-रुक्तं। तदाह धर्मदत्तः स्वग्रन्थे
“रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते। तच्चमत्कार-सारत्वे सर्वत्राप्यद्भुतो रसः। तस्मादद्भुतमेवाह कृतीनारायणो रसमिति”।
“कैश्चिदिति प्राक्तनपुण्यशाखिभिःतदुक्तं
“पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिमिति” यद्यपि
“स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तं तथापि
“रसः{??}द्यते” इति काल्पनिकं भेदमुररीकृत्य कर्मकर्त्तरि वाप्रयोगः। तदुक्तम्
“रस्यमानतामात्रसारत्वात् प्रकाश-परीरादनन्य एव हि रसः” इति। एवमन्यत्राप्येवं-विधस्थलेषूपचारेण प्रयोगा ज्ञेयाः। नन्वेतावता रस-स्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेष-त्वाद् द्वयोरैक्यमापतिज् ततश्च
“स्वज्ञानेनान्यधीहेतुःसिद्धेऽर्थे व्यञ्जको मतः। यथा दीपोऽन्यथाभावे कोविशेषोऽस्य कारकात्” इत्युक्तदिशा षटप्रदीपवद्व्यङ्ग्यव्यञ्जकाः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेतिचेत् सत्यमुक्तम् अत एवाहुः
“विलक्षण एवायंगतिज्ञाप्तभेदेभ्यः स्वादनाख्यः कस्तिद्व्यापारः। अतएव हि रसनास्वादनचमत्करणादयो विलक्षणा एवव्यपदेशा इति अभिधादिविलक्षणव्यापारतायाः प्रसाधन-ग्रहिलैराताभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति। ननुतर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं न स्यादि-न्युच्यते”
“करुणादावपि रसे जायते यत् परं ञ्चुखम्। [Page4795-b+ 38] सचेतसामनुभवः प्रमाणं तत्र केवलम्”। आदिशब्दाद्वीभत्सभयानकादयः। तथाप्यसहृदयानां मुखमुद्रणायपक्षान्तरमुच्यते।
“किञ्च तेषु यदा दुःखं न कोऽपिस्यात्तदुन्मुखः”। न हि कश्चित् सचेता आत्मनोदुःखाय प्रवर्त्तते करुणादिषु च सकलस्यापि साभि-निवेशप्रवृत्तिदर्शनात्। अनुपपत्त्यन्तरमाह।
“तथारामायणादीनां भविता दुःखहेतुता”।
“करुणरसस्यदुःखहेतुत्वात् करुणरसप्रधानरामायणादिप्रबन्धानामपिदुःखहेतुत्वप्रसङ्गः स्यात्। ननु कथं दुःखकारणेभ्यःसुखोत्पत्तिरित्याह
“हेतुत्वं शोकहर्षादेर्गतेभ्यो लोक-संश्रयात्। शोकहर्षादयो लोके जायन्तां नाम लौ-किकाः। अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात्। सुखं संजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः”। येखलु रामवनवासादयो लोके दुखकारणानि इत्यु-च्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभा-वनव्यापारवत्तया कारणशब्दवाच्यत्वं विहायालौकिक-विभावशब्दवाच्यत्वं भजन्ते। तेभ्यश्च सुरते दन्तघाता-दिभ्य इव सुखमेव जायते। अतश्च लौकिकशोकहर्षा-दिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते इतिलोक एव प्रतिनियमः। काव्ये पुनः सर्वेभ्योऽपिविमावादिभ्यः सुखमेव जायते इति नियमान्न कश्चिद्-दोषः। कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्य-येरपि दर्शनश्रुवणाभ्यामश्रुपातादयो जायन्त इत्युच्यते।
“अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः”। तर्हि कथंकाव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्याह
“न जायते तदास्वादो विना रत्यादिवासनाम्”। वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः। तत्रयदि आद्या न स्याच्छ्रोत्रियजरन्मीमांसकादीनामपि सास्यात्। यदि द्वितीया न स्याद् यद्रागिणामपि केषा-ञ्चिद्रसोद्बोधो न दृश्यते तन्न स्यात्। उक्तञ्च धर्मदत्तेन
“सवासनानां सभ्यानां रसस्यास्वादनं भवेत्। निर्वा-सनास्तु रङ्गान्तःकाष्ठकुड्याश्मसन्निभाः” इति। ननु कथंरामादिरत्याद्युद्बोधकारणैः सीतादिभिः सामाजिक-रत्याद्युद्बोध इत्युच्यते
“व्यापारोऽस्ति विभावादेर्नाम्नासाधारणीकृतिः। तत्प्रभावेन यस्यासन् पाथोधि{??}-नादयः। समाता तदभेदेन स्वात्मानं प्रतिपद्यते”।
“{??}कथं मनुष्यमात्रस्य समुद्रलङ्गनादा{??}वोध इत्यु-च्यते
“सत्माहादिसमुद्बोधः साधारण्यामिमागतः। [Page4796-a+ 38] नॄणामपि समुद्रादिलङ्घनादौ न दुष्यति”। रत्यादयोऽपिसाधारण्येन प्रतीयन्त इत्याह साधारण्येन रत्या-दिरपि तद्वत् प्रतीयते”। रत्यादेरपि ह्यात्मगतत्वेनप्रतीतौ सभ्यानां व्रीडातङ्कादिर्भवेत् परगतत्वेन त्वरस्य-तापातः विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्तेइत्याह
“परस्य न परस्येति ममेति न ममेति च। तदास्वादे विभावादेः परिच्छेदो न विद्यते”। ननुतथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते
“विभावनादिव्यापारमलौकिकमुपेयुषाम्। अलौकिकत्व-मेतेषां भूषणं न तु दूषणम्”। आदिशब्दादनुभावन-सञ्चारणे। तत्र विमावनं रत्यादेर्विशेषेणास्वादाङ्कुरण-योग्यतानयनम्। अनुभावनमेवम्भूतस्य रत्यादेः समन-न्तरमेव रसादिरूपतया भावनम्। सञ्चारणं तथाभूतस्यै-तस्य सम्यक्चारणम्। विभावादीनां यथासङ्क्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसीद्बोधे कारणत्व-मित्युच्यते
“कारणं कार्य्यसञ्चारिरूपा अपि हि लोकतः। रसोद्बोधे विभावाद्याः कारणान्येव ते मताः”। ननुतर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते
“प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते। ततः संवलितःसर्वो विभावादिः सचेतसाम्। प्रपानकरसन्यायाच्चर्व्य-माणोरसो भवेत्”। यथा खण्डमरिचादीनां सम्मेलनादपूर्वइव कश्चिदास्वादः प्रपानकरसे संजायते विभावादिसम्मे-लनादिहापि तथेत्यर्थः। ननु यदि विभावानुभावव्यभि-चारिभिर्मिलितैरेव रसस्तत् कथं एकस्य द्वयोर्वा सद्भावेऽपिस स्यादित्युच्यते
“सद्भावश्चेद्विभावादेर्द्वयोरकस्य वाभवेत्। झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते”। अन्यसमाक्षेपश्च प्रकरणादिवशात्। यथा
“दोर्घाक्षंशरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्खिप्तं निवि-डोन्नतस्ततमुरः पार्श्वे प्रमृष्टे इव। मध्यः पाणिमिनोनितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैवमनसः सृष्टं तथास्या वपुः”।
“अत्र मालबिकामभि-लष्यतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने सञ्चा-रिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फार दीना-मौचित्यादेवाक्षेपः। एवमन्याक्षेपेऽप्यूह्यम्।
“अनुकार्य्यगतोरसः” इति वदतः प्रत्याह
“पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा। अनुकार्य्यस्य रत्यादेरुद्बोधो नरसो भवेत्”। सीतादिदर्शनादिजो रामादिरत्याद्युद्-बोधो हि परिमितो लौकिको, नाट्यकाव्यदर्शनादेः[Page4796-b+ 38] सान्तरायश्च। तस्मात् कथं रसरूपतामियात्। रसस्यै-तद्धर्मत्रितयविलक्षणधर्मकत्वात्। अनुकर्तृगतत्वञ्चास्य निरस्यति
“शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपतम्। दर्शयन् नर्त्तको नैव रसस्यास्वादको भवेत्”। किञ्चकाव्यार्थाभावने नायमपि सभ्यपदास्पदम्। यदि पुन-र्नटोऽपि काव्यार्थभावनया रामादिरूपतामात्मनो दशयेत्तदा सोऽपि सभ्यमध्य एव गण्यते”। द्रव्यगतमधुरादिरसकारणादिकं सुश्रुते उक्तं यथा
“अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः। आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोतर-परिवृद्धाः शब्दस्पर्शरूपरसगन्धाः। तस्मादाप्यो रसःपरस्परससर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्चसर्वेषु सर्वेषां सान्निध्यमस्त्थुत्कर्षापककर्षात्तु ग्रहणम्। स खल्वाप्योरसः शेषभूतसंसर्गाद्विभक्तः षोढा विभ-ज्यते। तद्यथा मधुरोऽम्ला लवणः कटुकस्तिक्तःकषाय इति। ते च भूयःपरस्परसंसर्गात् त्रिषष्टिधाभिद्यन्ते। तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः
१ । भूम्यग्नि-गुणबाहुल्यादम्लः
२ । तोयाग्निगुणबाहुल्याल्लवणः
३ वाय्व-ग्निगुणबाहुल्यात् कटुकः
४ । वाय्वाकाशगुणबाहुल्या-त्तिक्तः
५ । पृथिव्यनिलगुणबाहुल्यात् कषायः
६ इति। तत्रमधुराम्ललवणा वातघ्नाः। मधुरतिक्तकषायाः पित्तघ्नाः। कटुतिक्तकषायाः श्लेष्मघ्नाः तत्र वायुरात्मनैवात्मा पित्त-माग्नेयं श्लेष्मा सौम्य इति। त एव रसाः स्वयोनि-वर्द्धना अन्ययोनिप्रशमनाश्च”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रस¦ m. (-सः)
1. Flavour, taste, viz:--sweet, salt, pungent, bitter, sour, and astringent.
2. Taste, sentiment, emotion, as an object of poe- try or composition; eight sentiments are usually enumerated, viz:-- Sringa4ra or love, Ha4sya or mirth, Karun4a or tenderness, Raudra or anger, Bi4ra or heroism, Bhaya4naka or terror, Bibhatsa or disgust, and Adbhuta or surprise; Sa4n4ta, tranquility or content or Ba4tsalya, paternal tenderness, is sometimes considered as the ninth.
3. Affection of the mind, passion.
4. Juice, exudation, a fluid, a liquid, or liquified substance.
5. Poison.
6. Semen virile.
7. Water.
8. The primary or essential juice or fluid of the body, whence blood, serum, sweat, &c. are supposed to be engendered; it corresponds best with chyle, but is probably of a fanciful nature.
9. Gum myrrh.
10. Quicksilver, from its being a semi-fluid metal, and according to certain alchemical notions possessed of supernatural power over the juices of the body, &c.
11. A mineral or a metallic salt, as sulphur, borax, talc, blue or green vitriol, &c.; they are however usually called Upa or inferior Rasas. f. (-सा)
1. The earth.
2. The tongue.
3. A plant, commonly A4kana4di. (Cissampelos hexandra.)
4. A sort of grain, (Panicum italicum.)
5. The frankincense-tree, (Boswellia thurifera)
6. The grape.
7. A medical drug, commonly Ka4ko4li. E. रस् to taste, to love, aff. अच |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसः [rasḥ], [रस्-अच्]
Sap, juice (of trees); इक्षुरसः, कुसुमरसः &c.
A liquid, fluid; यष्टव्यं पशुभिर्मुख्यैरथो बीजै रसैरिति Mb.14.91.21; न्यस्ताक्षरा धातुरसेन यत्र Ku.1.7.
Water; सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18; Bv.2.144.
Liquor, drink; Ms.2.177.
A draught, potion.
Taste, flavour, relish (fig. also) (considered in Vaiś. phil. as one of the 24 gunas; the rasas are six; कटु, अम्ल, मधुर, लवण, तिक्त and कषाय); परायत्तः प्रीतेः कथ- मिव रसं वेत्तु पुरुषः Mu.3.4; U.2.2.
A sauce, condiment,
An object of taste; मनो बबन्धान्यरसान् विलङ्ध्य सा R.3.4.
Taste or inclination for a thing, liking, desire; रसवर्जं रसो$प्यस्य परं दृष्ट्वा निवर्तते Bg.2.59; इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति Me.114.
Love, affection; जरसा यस्मिन्नहार्यो रसः U.1.39; प्रसरति रसो निर्वृतिघनः 6.11 'feeling of love'; रसादृते V.2.21; Ku. 3.37.
Pleasure, delight, happiness; चिरात्सुतस्पर्श- रसज्ञतां ययौ R.3.26.
Charm, interest, elegance, beauty.
Pathos, emotion, feeling.
(In poetic compositions) A sentiment; नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति; K. P.1. (The rasas are usually eight: शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । भीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ but sometimes शान्तरस is added; thus making the total number 9; निर्वेदस्थायिभावो$स्ति शान्तो$पि नवमो रसः K. P.4; sometimes a tenth, वात्सल्यरस, is also added. Rasas are more or less a necessary factor of every poetic composition, but, according to Viśvanātha, they constitute the very essence of poetry; वाक्यं रसात्मकं काव्यम् S. D.3.).
Essence, pith, best part; ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसःMb.12.24.9.
A constituent fluid of the body.
Semen virile.
Mercury.
A poison, poisonous drink; as in तीक्ष्णरस- दायिनः; रसविधानकौशलैः Dk.2.8.
Any mineral metallic salt.
Juice of the sugar-cane.
Milk.
Melted butter.
Nectar; मयः कूपरसे$क्षिपत् Bhāg.7.1.59-6.
Soup, broth.
A symbolical expression for the number 'six'.
Green onion.
Myrrh.
Gold.
A metal in a state of fusion.
See रसातल; अनेन नूनं वेदानां कृतमाहरणं रसात् Mb.12.347.67.
The tongue (as the organ of taste); वाण्यां च छन्दांसि रसे जलेशम् Bhāg.8.2.27; जितं सर्वं जिते रसे 11.8.21.
(With Vaiṣṇavas.) Disposition of the heart or mind (the five Rasas are शान्ति, दास्य, साख्य, वात्सल्य and माधुर्य). -Comp. -अग्रजम् an ointment prepared from the calx of brass. -अञ्जनम् vitriol of copper, a sort of collyrium. -अधिक a.
tasty.
abounding in pleasures, splendid; Ś.7.2 (v. l.). (-कः) borax.
अन्तरम् a different taste.
different feelings or sentiments. -अभिनिवेशः intentness of affection.
अम्लः a kind of sorrel.
sour sauce.
अयनम् an elixir of life (elixir vitæ), any medicine supposed to prolong life and prevent old age; निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव R. G.
(fig.) serving as an elixir vitæ, i. e. that which gratifies or regales; आनन्दनानि हृदयैकरसायनानि Māl.6.8; मनसश्च रसायनानि U.1.37; श्रोत्र˚, कर्ण˚ &c.
alchemy or chemistry.
any medicinal compound.
butter-milk.
poison.
long pepper.
(नः) an alchemist.
N. of Garuḍa. ˚श्रेष्ठः mercury. (-नी f.)
a channel for the fluids of the body.
N. of several plants: गुडूची, काकमाची, महाकरञ्ज, गोरक्षदुग्धा and मांसच्छदा. -आत्मक a.
consisting of juice or sentiment.
elegant, beautiful.
having taste or flavour.
ambrosial; रसात्मकस्योडुपतेश्च रश्मयः Ku.5.22.
fluid, liquid, watery; सोमो भूत्वा रसात्मकः Bg.15.13.-आदानम् absorption of fluid, suction. -आधारः the sun.
आभासः the semblance or mere appearance of a sentiment; अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः S. D.
an improper manifestation of a sentiment. -आश्रयः a. embodying or representing sentiments.
आस्वादः tasting juices of flavours.
perception or appreciation of poetic sentiments, a perception of poetical charm; as in काव्यामृतरसास्वादः. -आस्वादिन् m. a bee. -आह्वः turpentine. -इक्षुः sugar-cane.
इन्द्रः mercury.
the philosopher's stone (the touch of which is said to turn iron into gold); ˚वेधजम्, संजातम् the gold.-उत्तमम् milk.
(मः) quicksilver.
Phaseolus Mungo (Mar. मूग).
milk.
उत्पत्तिः production of taste.
development of passion or sentiment.
generation of the vital fluids.
उद्भवम् a pearl.
vermilion.-उपलम् a pearl. -ऊनम् garlic; also ऊनकः. -ओदनम् rice boiled in meat-broth. -कर्पूरम् sublimate of mercury. -कर्मन् n. preparation of quicksilver. -केसरम् camphor. -क्रिया the inspissation and application of fluid remedies. -गन्धः, -न्धम् gum-myrrh.
गन्धकः myrrh.
sulphur.
गर्भम् = रसाञ्जन.
vermilion.-गुण a. possessing the quality of taste; ज्योतिषश्च विकुर्वाणा- दापो रसगुणाः स्मृताः Ms.1.78. -ग्रह a.
perceiving flavours.
appreciating or enjoying pleasures. (-हः) the organ of taste. -घन a. full of juice. -घ्नः borax.
जः sugar, molasses.
an insect produced by the fermentation of liquids. -जम् blood. -a. bred in fluids; Ms.11.143. -जातम् an ointment prepared from the calx of brass. -ज्ञ a.
one who appreciates the flavour or excellence of, one who knows the taste of; सांसारिकेषु च सुखेषु वयं रसज्ञाः U.2.22.
capable of discerning the beauty of things.
(ज्ञः) a man of taste or feeling, a critic, an appreciative person, a poet.
an alchemist.
a physician, or one who prepares mercurial or other chemical compounds. (-ज्ञा) the tongue; सखि मा जल्प तवायसी रसज्ञा Bv.2.59; (-रसज्ञता, त्वम् means
poetical skill.
alchemy.
knowledge of flavours.
discrimination.). -ज्ञानम् a branch of medical science.
ज्येष्ठः the sweet taste.
the love sentiment.-तन्मात्रम् the subtle element of taste. -तेजस् n. blood.
दः a physician; Mb.12.121.45.
a spy who administers poison; Kau. A.1.12. -द्राविन् a kind of citron. -धातु n. quicksilver. -धेनुः a cow consisting of fruit-juice. -नाथः mercury. -नायकः N. of Sacute;iva.-निवृत्तिः loss of taste. -नेत्रिका red arsenic. -पाकजः molasses. -पाचकः a cook. -प्रबन्धः any poetical composition, particularly a drama. -फलः the cocoanut tree. -भङ्गः the interruption or cessation of a sentiment.-भवम् blood. -भस्मम् n. oxide of mercury. -भेदः a preparation of quicksilver. -मलम् impure excretions.-मातृका the tongue. -योगः juices mixed scientifically.
राजः, लोहः = रसाञ्जन.
quick-silver. -वादः alchemy. -विक्रयः sale of liquors. -विद्धम् artificial gold.-शास्त्रम् the science of alchemy. -शोधनः borax. (-नम्) purification of mercury. -सरोरुहम् a red lotus.-सिद्ध a.
accomplished in poetry, conversant with sentiments; जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः Bh.2.24.
skilled in alchemy. -सिद्धिः f. skill in alchemy.-सिन्दूरम् a cinnabar made of zinc, mercury, blue vitriol and nitre. -स्थानम् vermilion.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रस m. ( ifc. f( आ). )the sap or juice of plants , Juice of fruit , any liquid or fluid , the best or finest or prime part of anything , essence , marrow RV. etc.
रस m. water , liquor , drink MBh. Ka1v. etc.
रस m. juice of the sugar-cane , syrup Sus3r.
रस m. any mixture , draught , elixir , potion R. BhP.
रस m. melted butter L.
रस m. (with or scil. गवाम्)milk MBh.
रस m. (with or scil. विषस्य)poison Das3. Ra1jat.
रस m. nectar L.
रस m. soup , broth L.
रस m. a constituent fluid or essential juice of the body , serum , ( esp. ) the primary juice called chyle (formed from the food and changed by the bile into blood) ib.
रस m. mercury , quicksilver (sometimes regarded as a kind of quintessence of the human body , else where as the seminal fluid of शिव) Sarvad.
रस m. semen virile RV. i , 105 , 2
रस m. myrrh L.
रस m. any mineral or metallic salt Cat.
रस m. a metal or mineral in a state of fusion(See. उप-, महा-र्)
रस m. gold L.
रस m. Vanguieria Spinosa L.
रस m. a species of amaranth L.
रस m. green onion L.
रस m. resin L.
रस m. = अमृतL.
रस m. taste , flavour (as the principal quality of fluids , of which there are 6 original kinds , viz. मधुर, sweet ; अम्ल, sour ; लवण, salt ; कटुक, pungent ; तिक्त, bitter ; and कषाय, astringent ; sometimes 63 varieties are distinguished , viz. beside the 6 original ones , 15 mixtures of 2 , 20 of 3 , 15 of 4 , 6 of 5 , and 1 of 6 flavours) S3Br. etc.
रस m. N. of the number " six " VarBr2S. S3rutab.
रस m. any object of taste , condiment , sauce , spice , seasoning MBh. Ka1v. etc.
रस m. the tongue (as the organ of taste) BhP.
रस m. taste or inclination or fondness for( loc. with or scil. उपरि, or comp. ) , love , affection , desire MBh. Ka1v. etc.
रस m. charm pleasure , delight ib.
रस m. (in rhet. )the taste or character of a work , the feeling or sentiment prevailing in it (from 8 to 10 रसs are generally enumerated , viz. शृङ्गार, love ; वीर, heroism ; बीभत्स, disgust ; रौद्र, anger or fury ; हास्य, mirth ; भयानक, terror ; करुण, pity ; अद्भुत, wonder ; शान्त, tranquillity or contentment ; वात्सल्य, paternal fondness ; the last or last two are sometimes omitted ; See. under भाव) Bhar. Das3ar. Ka1vya7d. etc.
रस m. the prevailing sentiment in human character Uttarar. Ra1jat.
रस m. (with वैष्णवs) disposition of the heart or mind , religious sentiment (there are 5 रसs or रतिs forming the 5 degrees of भक्तिSee. , viz. शान्ति, दास्य, साख्य, वात्सल्य, and माधुर्य) W.
रस m. a kind of metre Pin3g.
रस m. N. of the sacred syllable , " Om , " S3a1n3khGr2.
रस m. the son of a निषादand a शनकीL.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a तुषित god. Br. III. 3. १९.
(II)--the गुण of waters becomes absorbed in ज्योतिस् or तेजस् and consequently waters reach the verge of destruction. वा. १०१. ४२. १०२. 9.